________________
श्रीप्रवचनपरीक्षा ८ विश्रामे ॥१०५॥
HOSHOHTOOOOOOOO
जिनेनोक्तं, यदा गमः - "छहिं ठाणेहिं समणे निग्गंथे आहारमाहारमाणे नाइक मह, तं० - वेअग वे आवच्चे इरिअठ्ठाए अ संजमाए। तह पाणवत्तिआएछढं पुण धम्मचिंताए १ ॥ "त्ति श्रीस्थानाङ्गं (५००) एवमुपाश्रयाद्वहिर्निर्गमनमप्यापचादिकं, यदागम:- "एगग्गस्स पसं तस्स न हुंति इरिआदओ गुणा हुंति । गंतव्वमवस्तं कारणंगि आवसिआ हो || १ ||" त्ति श्री आव० नि० (३९३) एवं वैयावृत्यादिध्वपि स्वयमेव योज्यं, तीर्थप्रवाहग्रहणे जिनकल्पिकव्यवच्छेदः सूचितः, जिनकल्पिकस्य द्वितीयपदाभावात्, यद्यपि स्थविरकल्पि - कानां यदपवादपदं तत्किचिजिनकल्पिकानामपि तथापि जिनकल्पमङ्गीकृत्योत्सर्गपदमेव बोध्यं तस्य द्वितीयपदाभावात् तथैव जिनाज्ञायाः, किंच - उत्सर्गापवादावपि पुरुषकालाद्यपेक्षया सापेक्षावपीति न किंचिद्विकल्पस्थानमिति ननु जिनोतविधिनोत्सर्गसेवनायामप्रायश्चित्तमपवादसेवनायां च प्रायश्चित्तमिति चैषम्यं न युज्यते, उभयत्राप्याज्ञायास्तौल्यादिति वेन्मैत्रं, समानन्यायोत्पन्नयोरपि यौगलिकस्त्रीपुरुषयोरिवोत्सर्गापवादयोरपि स्वभाववैपम्यस्य न्यायोपपन्नत्वाद्, अयं भावः - समानमातृ पित्रादिकारणयोरपि यौगलिकस्त्रीपुरुषयोराकृति विकृतिगतिभणितिप्रमुखचेष्टाभिः स्वभाववैषम्यमनादिजगत्प्रवाहसिद्धं, जगत्प्रवृत्तिहेतुरपि, तथा जिना - ज्ञागोचरयोरप्युत्सर्गापवादयोस्तथैवोक्तवैषम्यमनादिसिद्धं प्रचचनप्रवृत्तिहेतुरपि, तथा च नैकस्याः स्त्रिया नैकस्माद्वा पुरुषात् जगत्प्रवाहप्रवृत्तिः, किंतुभाभ्यां समुदिताभ्यामेव, एवं नैकस्मादुत्सर्गादपवादाद्वा धर्ममूलस्य तीर्थस्य प्रवृत्तिः, किंतूत्सर्गापवादाभ्यां समुदिताभ्यामेवेतिबोध्यं किंच वस्तुगतिरियम् - अपवादस्तावच्छ्रान्तानां पथिकानां विश्रामस्थानकल्पः, तत्रोपन यस्त्वेवं - कस्यचिदिभ्यस्य त्रयः पुत्राः पितुराज्ञामवाप्य व्यापारेण धनोपार्जनेच्छया देशान्तरं गताः, तत्र तथैवोपार्जित विपुलधनाः परेभ्यः संभावितोपद्रवाः स्वयमेव सारस्वापतेयग्रन्थिशिरस्काः स्वगृहामिमुखमागच्छन्ति, तेषां मध्यादेकः परश्रान्तं पित्रादिमिलनोत्सुकोऽग्रत एवा
Jain Education International
For Personal and Private Use Only
HONGOGY ONGOLDHOKHOKIGHOSI
जिनप्रतिमासिद्धिः
॥१०५॥
www.jainelibrary.org