________________
PAHINI
सूत्रस्य परतन्त्रता
श्रीप्रवचनपरीक्षा १विश्रामे ॥५३॥
LIBRARIArana
MEDICINEPARAMDHAmiBP
| थोपदेशमालादिकं, शुद्धपाठस्तु वृषभवत्परतन्त्र इत्यक्षरार्थः, भावार्थस्त्वयं-प्रथमस्तावत्कुपाक्षिकैनवीनविपरीतप्ररूपणादिकं विहितं, पश्चासिद्धान्तपाठस्तु यथास्थित एवाभ्युपगतः, तत्परावृत्तिकरणे शक्त्यभावात् , यस्य शक्तिरासीत् तैः पाठपरावृत्तिरपि विहिता, यथा दिगम्बरेण, अर्थस्य तु परावृत्तिः सर्वैरपि कर्तुं शक्यते, यथा चैत्यशब्देनास्माभिर्ज्ञानमुच्यते, नतु जिनप्रतिमा, वृत्त्यादावेवमों नास्ति, किंतु जिनप्रतिमैव,ततः टीकादिकमस्माभिर्नाङ्गीक्रियते इत्याद्यसमञ्जसवादे समुत्सुकीभवन्ति, सिद्धान्तस्तु सूत्रार्थोभयात्मकः, स च तैर्नाभ्युपगतः, यस्तु केवलपाठः स च वृषभवत् परतन्त्रो, यत्र नीयते तत्र यातीतिगाथार्थः ॥७८॥ अथ | पाठो वृषभवत् परतन्त्रस्तेन प्रकृते किं संपन्नमित्याह
तेण विवरीअअत्थं भासिजंतं विअत्तभासाए । न य पुक्करेइ सुत्तं आगरिसपुरिसगयणुगइ ॥७९॥ येन कारणेन पाठः परतन्त्रस्तेन कारणेन विपरीतार्थतया भाष्यमाणं सूत्रं व्यक्तभाषया न च पूत्कुरुते, तत्र विशेषणद्वारा हेतुमाह-किंभूतं सूत्रं ?-'आगरिसे'त्यादि आकर्षकपुरुषगत्यनुगति, रज्ज्वादिना गृहीत्वा पुरो गन्ता आकर्षकस्तस्य या गतिस्तस्या अनु-पश्चाद् गतिर्यस्य तदाकर्षपुरुषगत्यनुगति सूत्रम्, आकर्षको यत्र यत्र नयति तत्र यातीति वृषभोपमं सूत्रं, यो यथा विकल्प्याथं करोति तदेवार्थमनुगच्छति, अतः केवलसूत्रपाठस्तु सिद्धान्त एव न भवति, किंतु सूत्रार्थोभयात्मक इति गाथार्थः ॥७९॥ अथ केवलपाठः कीदृक् स्यादित्याहतेणेवागमपाढो न य ववहारप्पवायगो समए । भिन्नो वाऽभिन्नो वा भिन्नो निअमेण भिन्नत्थो ॥८॥ येन कारणेनागमपाठो वृषभकल्पस्तेन कारणेनागमपाठो 'नच' नैव 'व्यवहारप्रवादकः' प्रवृत्तिनिवृत्तिरूपं व्यवहारं प्रवद
DISHITITLEEPI
SILITANIUDUPAMARI
For
and i
n