SearchBrowseAboutContactDonate
Page Preview
Page 71
Loading...
Download File
Download File
Page Text
________________ श्रीप्रवचनपरीक्षा १ विश्रामे ॥ ३७ ॥ नास्मादन्यो धर्म इत्यर्थः, अनेन रौद्रध्यानं दूरे, प्रत्युत परधर्म एव तदीयमताहानिविकल्प इति दर्शितम् । अत एव "निव्वुइपहसा| सणयं जयइ सया सवभावदेसणयं । कुसमयमयनासणयं जिणिंदवरवीरसासणयं” १। ( नन्दी - २२५ ) इत्यादिवचोभिः प्रवचन|विषयकाऽऽशीरपीतिगाथार्थः ॥ ४३ ॥ अथ तीर्थहानिं कुपाक्षिकहानिं चेच्छतोः परस्परं महदन्तरं, तदेव दृष्टान्तेनाह किं विज्ञाइज्झाणं सरिसं हरिएसिजखझाणेण । असुईलित्तो पाओ चंदणलित्तेण किं सरिसो १ ॥४४॥ 'धिग्जातिध्यानं ' ब्राह्मणकुमाराणां ध्यानं 'हरिकेशियक्ष ध्यानेन' हरिकेशिसाधोर्वैयावृत्यकरस्य तिन्दुकनाम्नो यक्षस्य ध्यानेन सदृशं किं भवेद् १, अपितु न भवेत्, यतः कुमारध्यानं मुनिहननविषयं, यक्षस्य तु कुमारहननेऽपि मुनिरक्षणेन वैयावृत्यविषयकं, न | पुनः रागद्वेषप्रभवं यदागमः - " पुविं च इहि च अणागयं च, मणप्पदोसो न मे अत्थि कोई । जक्खा हु वेआवडिअं करिंति, तम्हा उ एए निइया कुमारा" ॥१॥ इतिश्री उ० (३९-५) वैयावृत्यं हि महानिर्जराहेतुरित्यग्रे वक्ष्यते, तस्माद्धननामिप्रायसाम्येऽपि द्वयोर्ध्यानयोर्महदन्तरम् एवं कुपाक्षिकाणां तीर्थोच्छेदविषयक ध्यानमस्माकं च तीर्थरोगकल्पस्य कुपाक्षिकपक्षस्योच्छेदविषयकमिति उच्छेदध्यानसाम्येऽपि एकस्य धर्मध्यानमपरस्य रौद्रध्यानमिति, तत्रापि दृष्टान्तमाह- 'असुईलित्तो 'ति अशुचिना-पुरीपादिद्रव्येण लिप्तः पादः किं चन्दनलिप्तेन पादेन समः स्याद् ?, अपितु न स्यात्, एवं लिप्तत्वेन साम्येऽपि अशुचिलिप्तः पादो जलेन धौत एव भृमानुष्ठानप्रवृत्तिहेतुः स्यात्, चन्दनलिप्तस्तु स्वत एव विशेषतः स्याद्, एवं तीर्थोच्छेदध्यानं पुरीषकल्पं कुपा|क्षिकोच्छेदध्यानं च चन्दनकल्पम्, एवं विमलवाहन ध्यानं विकल्पं सुमङ्गलसाधोश्च ध्यानं चन्दनकल्पमित्यादि खयमेवालोच्यम्, एवं च ध्यानं जीवयोग्यतयैव समापतितं यथा आहारविषयक ध्यानसाम्येऽपि हंसस्य कमलपत्राण्येव संपन्नानि, काकादीनां तु विड् Jain Education International For Personal and Private Use Only उच्छेदच्या ने वैषम्यं ॥ www.jainelibrary.org.
SR No.600171
Book TitlePravachan Pariksha Part 01
Original Sutra AuthorDharmsagar
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1937
Total Pages498
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy