________________
श्रीप्रवनपरीक्षा १ विश्रामे
॥ ३० ॥
Jain Education International
'विपरीताः पित्रादेः सकाशात्पृथग्भूताः पुत्रादयोऽन्योऽन्यं यथाऽन्यस्तेषां पित्रादीनां ज्ञातिसंभवः - स्वगोत्रीयो भवति तत्सदृशः पुत्रादिः, तस्यापि च पित्रादिस्तथैव, अयं भावः - यथा निजजातीयास्तद्गृहे प्रवेष्टुं तद्गृहसंबन्धि वस्तुजातं भोक्तुं दातुं वा न समर्था भवन्ति, तथा पित्रादेः सकाशात्पृथग्भूताः पुत्रादयोऽपीति, आचारः पुनः - नित्यकृत्येषु 'कुलपतितः' कुलक्रमायातः एकः एवकारो गम्यः, एक एव न तु भिन्नः, एवं जिनप्रवचनेऽपि भिन्नशाखादिपतितोऽपि न नित्यक्रियायां भेदभाग् नवा प्ररूपणामधिकृत्यापि तस्य भेद इति गाथार्थः ||२७|| अथ प्रकारांतरेण दृष्टान्तमाह
अहवेगे सहगारे साहपसाहाइसंभवाणंपि । पत्ताईणं वण्णायारासायाभिहाइ समं ॥ २८ ॥
अथवैकस्मिन् सहकारे शाखाप्रशाखादिसंभवानामपि पत्रादीनां - पत्रपुष्पफलानां वर्णाकारास्वादाभिधानादि समं भवति, यथैकस्यां शाखायां पत्रपुष्पफलानां वर्ण आकार: आस्वादोऽभिधानं च यादृशं भवति तादृशमेवापरस्यामपि शाखायां पत्रादीनां स्यात्, न पुनर्भिन्नस्वभावः, एवं तीर्थेऽपि पृथक्शाखादिगतानां मुनिप्रभृतीनामेक एवाचारो, न भिन्न इति गाथार्थः ॥ २८ ॥ अथ तीर्थं कल्पद्रुमेणोपमयितुं गाथात्रिकमाह
मंजरि दुबालसंगी फलसरिसो सोहणी अ आयारो । महुररसासायसमं केवलणाणं मुणेअवं ||३०| तित्थनमुक्कारसलिलसित्तं तित्थंकरेण तं पढमं । तप्फलसायभिलासी अण्णोऽवि तहेव सिंचिज्जा ॥ ३१ ॥ सम्यक्त्व पृथ्वीपीठे तीर्थं कल्पद्रुमः, चः पुनरर्थे, शाखादिश्च सूरिप्रमुखाः श्रमणाः, श्रावकवर्गश्च पत्राणि, मञ्जरी तावत् द्वादशाङ्खयादिः, शोभन आचारश्व फळसदृशः, मधुररसाखादसमं केवलज्ञानं, शोभनाचारपरिपालनात् केवलावाप्तिः स्यात्, स च मधुर
For Personal and Private Use Only
संभोगविचार:
॥ ३० ॥
www.jainelibrary.org.