________________
श्रीप्रववनपरीक्षा
॥ २८ ॥
दिविचारः
विरहात्, किंखिदेक संततिस्तीर्थमित्याह – ' नागिंदे 'त्यादि, नागेन्द्रचन्द्रनिर्वृतिविद्याधरकुलेषु यथा चन्द्रकुलं तीर्थस्वेनाभिमतं शाखाकुला| संप्रत्यपि प्रत्यक्षं, शेषाणां त्रयाणां मध्ये निर्वृतिकुलं तु तदानीमेव निर्वृतं, नागेन्द्रविद्याधरकुले अपि छिन्नप्राये एव, क्वचित्कश्चित्तत्कुलजः श्रूयमाणोऽपि चारित्रक्रियाया अभावात् केवललिंगधारित्वेनाकिंचित्कर एव, ये तु चन्द्रकुलादपि राकारक्तादयः पृथग्भूताश्चन्द्र| कुलत्वमात्मनः ख्यापयन्ति तदयुक्तमेव, नवीनमार्गप्रकाशकत्वेनाभिनिवेशमार्गपतित्वात्तेषामितिगाथार्थः ||२२|| अथ दृष्टांतमाह - जह मणुआणं एगा अणाघणता य संतई लोए । सेसा अणाइसंता पञ्चकखं चेव दीसंति ॥२३॥ यथेत्युदाहरणोपन्यासे, यथा मनुजानामेका संततिरनाद्यनन्ता भवति - आद्यन्तरहिता स्यात्, शेषाः संततयोऽनादिसान्ताः - आ| दिरहिता अपि सपर्यवसानाः, गर्भजानां हि संततिमपेक्ष्यानादित्वमेव स्याद् एवं सत्यपि काश्चन संततयः सपर्यवसाना एव स्युः, एतच्च लोके प्रत्यक्षं दृश्यते, यथा कस्यचिद्देवदत्तस्य चतुर्णां पुत्राणामेकस्य संततिः प्रवर्द्धमाना दृश्यते, शेषाणां मध्ये कस्यचिदेका| पत्यपर्यवसायिनी, कस्यचिद् द्वित्र्याद्यपत्यान्ताऽपि स्यादिति गाथार्थः || २३ || अथ स्थविरावल्यां याः शाखाः यानि च कुलानि तेषां परस्परमदूषकत्वेनाविवाद एवासीत् तत्कथमित्याह
दसविहसामायारीकरणे तह निच्चकिञ्चकिरिआसु । सधेसिं सामनं तेसिं तेणेव अविवाओं ॥ २४ ॥
दशविध सामाचारी "इच्छा मिच्छा तहकारो" इत्यादिरूपा तस्याः करणं तस्मिन् तथा नित्यकृत्यानि - प्रतिक्रमणप्रतिलेख| नादिसाध्वनुष्ठानरूपाणि तदुपायाः क्रियास्तासु, सर्वेषां शाखादीनां सामान्यं समानता अवैषम्यमासीत्, तेनैव हेतुना तेषामविवादः - अविप्रतिपत्तिरिति ॥ अथ तेषामविप्रतिपचौ सांभोगिकत्वमेव कथं न स्यादित्याह -
Jain Educationa International
For Personal and Private Use Only
॥ २८ ॥
www.jainelibrary.org