SearchBrowseAboutContactDonate
Page Preview
Page 51
Loading...
Download File
Download File
Page Text
________________ श्रीप्रवचनपरीक्षा 112911 | तीर्थबाह्यताभणने न किञ्चिद्वाधकं पश्यामः । काप्यागमे केशिकुमारसंतानीयोऽमुकनामा स्थविरो होइमांगलिकत्वेन प्रतीतो महानु| भाव इत्याद्यदर्शनात्, ननु न हि वयं हवइमांगलिकानामतीर्थत्वं वदामः, किंतु वीरतीर्थं तदायत्तमेव जानीमः परं यदा श्रीकेशिकुमारेण श्रीगौतमसमीपे पञ्चमहात्रतोच्चारनियतश्वेतवर्णाद्युपेतनेपथ्यमार्गोऽङ्गीकृतस्तदानीं प्रतिक्रमणादिसामाचार्यां होइमंगल - | मितिपाठे च सन्नपि किंचिद्भेदः श्रीगौतमस्याप्यभिमतः, अतो न केशिकुमारेण परित्यक्तः, स चास्माकं परम्परागत इति धीरस्माकमिति चेत्, तदयुक्तं, नमस्कारादिषडावश्यकपाठस्य प्रतिक्रमणाद्यनुष्ठानस्य च चतुर्विंशतेरपि तीर्थकृतां तीर्थेषु भेदाभावाद्, | अन्यथा श्री ऋषभतीर्थिकानां कोटिशः श्रावकादीनां श्रीअजिततीर्थोत्पत्तिसमये नमस्कारादिषडावश्यकस्य पाठस्यान्यथासंभवे प्राची|नपाठविस्मारणपुरस्सरं पुनरन्यथा पाठनं युज्यते, एवं यावत् श्रीवीरतीर्थोत्पत्तिसमयेऽपि, तथा चाच्छिन्न श्रावक कुलमर्यादा विलुप्येत, तस्मात् कुलक्रमायात नियतानुष्ठानातिरिक्ते कथंचिद्भेदोऽपि न दोषाय, तत्रापि नमस्कारपाठस्य नित्यत्वात् तीर्थवर्त्तिना केनापि पराकर्तुमशक्यत्वात्, किंच-पाठपरावृत्तिरपि किंचिन्निमित्तमासाद्यैव ज्यायसी, यथा चतुर्विंशतिस्तवाध्ययने प्रत्युत्सपिण्यादौ | केवलज्ञान्यादिऋषभादिपद्मनाभादिरूपेण तीर्थकुन्नाम्नां पार्थक्यं पाठपरावृत्तिकल्पनायां कारणं, साऽपि कल्पना न तीर्थान्तरमधिकृत्यापि, तत्रोक्तकारणाभावाद्, एवमङ्गादिष्वपि यत्र क्वापि तथाविधकारणं तत्रैव पाठपरावृत्तिः कल्पनीया, न पुनः सामायिकादि| द्वादशाङ्गीपर्यन्तस्य सकलस्यापि श्रुतस्य प्रतितीर्थं पाठपरावृत्तिरेव कल्पनीया, निमित्ताभावे नैमित्तिकस्याप्यभावात् वस्तुतस्तु | गणधराणां ज्ञानावरणीयादिकर्मक्षयोपशमवैचित्र्यमेव पाठरचनायां हेतुः, तदपि पाठभेदमधिकृत्य नियतानुष्ठानोपयोगिश्रुताति| रिक्तस्थले बोध्यम्, अन्यथा द्वयोर्बहूनां वा गणधराणां परस्परमावश्यकादिमण्डली व्यवहारो न स्यात्, श्रावकाणामपि साधु Jain Educationa International For Personal and Private Use Only उपकेशीयविचारः ॥ १७ ॥ www.jainelibrary.org
SR No.600171
Book TitlePravachan Pariksha Part 01
Original Sutra AuthorDharmsagar
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1937
Total Pages498
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy