________________
श्रीप्रवचनपरीक्षा ४विश्रामे ॥४२६॥
लोकोत्तरमिथ्यात्वमहत्ता
कारिखचो न वक्तव्यमिति गाथार्थः ॥२३४॥ अथ गाथायुग्मेनोपसंहारमाहजम्हा उ संकिलिट्ठोऽभिनिवेसी होह तिथपडिकलेलोओउभणइ तित्थं तित्थं खलु तित्थअणुकुलो ॥२३५॥ तेणं सम्भवसिद्धी लाभह परतिस्थिएसुन वियऽवत्ते। इअमुणिअहंतु भवा भरपया तिथभत्तिवया॥२३६।। __ यस्मादमिनिवेशी-कुपाक्षिकः संक्लिष्टः-निक्लिष्टपरिणामवान् तीर्थप्रतिकूल:-तीर्थाहितप्रवृत्तिमान् प्रागुक्तयुक्त्या भवति, लोकस्तु-बौद्धादिम्तु खलुरवधारणे तीर्थमेव-जैनमार्गमेव तीर्थ-जैनमार्ग भणति तीर्थानुकूलो-वचसा सम्यग्भाषमाणस्तीर्थानुकूलप्रवृतिमान् भवति, तेन कारणेन तद्भवसिद्धिः, अपेर्गम्यत्वात् तद्भवसिद्धिपि-चरमशरीर्यपि लभ्यतेऽन्यतीर्थिकेषु, यतोऽन्यतीथिका उत्कर्षतो दश सिड्यन्त्येकस्मिन् समये, यदुक्तं-"सिज्झइ गिहिअन्नसलिंग चउद्दसट्टाहिअसयं च'त्ति, न चाव्यक्ते-कुपाक्षिकवर्गे चरमशरीरी स्याद् , अयं भावः-अन्यतीर्थिको हि जैनमार्गश्रद्धानभाग तद्भवसिद्धिकोऽपि स्यात, किं तु तथाविधयोग्यतावशात् कश्चिदेकादिभवसिद्धिकोऽपि भवेत् , तस्य जैनमार्ग जैनमार्गतया अवाणस्य तथाविधवचोदोषाभावाद्, उत्सूत्रमार्गपतितस्तु सन्मार्गमाश्रितोऽपि न चरमशरीरी स्यात् , तच्छद्धानेन मृतस्तु नियमादनन्तसंसार्येव, तस्य तीर्थमतीर्थत्वेनातीर्थ च तीर्थत्वेन भाषमाणस्य तथाविधवचोदोषसद्भावादिति भावः । 'इअ मुणिऑत्ति इति-अमुना प्रकारेण ज्ञात्वा 'तीर्थभक्तिवचसः' तीर्थ तीर्थत्वेन वक्तव्यं, तदपि त्रैलोक्योत्तमं सर्वगुणनिधानमित्यादिभक्त्या वचो येषां ते तथाभूता भव्याः 'भद्रपदानि मङ्गलस्थानानि भवन्तु, प्राकृतत्वात् पुंस्त्वनिर्देशः, अयं भावः-आस्तां स्वयं कायेन तदाराधनं, वचोमात्रेणापि तीर्थस्वरूपं सम्यग् निरूपयन् त्रैलोक्यपूज्यलक्ष्मीस्थानं भवतीतिगाथार्थः ॥२३२-२३६।। अथ तृतीयविश्रामोपसंहारमाह
४२६॥
Jan Education Interation
For Personal and Private Use Only
www.jainelibrary.org