________________
श्रीप्रव- चनपरीक्षा ४विश्रामे ॥३९६॥
साध्वीमिः सह विहारः
पूर्वनिपातः, संविनो द्विधा-द्रव्यतो भावतश्च, द्रव्यतो मृगः सदैव त्रस्तमानसत्वाद्, भावतो यः समारभयोद्विनः पूर्वरात्रा- | पररात्रकाले संप्रेक्षते-किंवा मया कृतं किंवा कर्तव्यशेष? किंवा शक्यमपि तपःकर्मादिकमहं न करोमीत्यादि, 'वजउति|| अकारप्रश्लेषादवद्यं-पापं सूचनात्सूत्रमितिकृत्वा तद्भीरु:-अबद्यमीरुः,ओजस्तेजश्चोभयमपि वक्ष्यमाणलक्षणं तद्विद्यते यस्य स ओजस्वी तेजस्वी वेति,संग्रहो द्रव्यतो वस्त्रादिमिर्भावतः सूत्राभ्याम् ,उपग्रहो द्रव्यत औषधादिमिः भावतो ज्ञानादिमिः,एतयोः संयतीविषययोः संग्रहोपग्रहयोः कुशलः,सूत्रार्थविद्-गीतार्थः,एष एवंविधोगगाधिपतिः-आर्थिकाणां गणधरः स्थापनीयः४॥ अथौजस्तेजसी व्याचष्टे-'आरोह' व्याख्या,आरोहो नाम-शरीरेण नातिदैध्य नातिङ्कस्वतापरिणाहो-नातिस्थौल्ये नातिदुर्बलता,अथवा आरोह:--शरीरोच्छ्यः परिणाहो-बाइबोर्विष्कम्भः,एतौ द्वावपि तुल्यौ न हीनाधिकप्रमाणौ 'चिअमंसोति भावप्रधानत्वानिर्देशस्य चितमांसत्वं नाम वपुषि पांसुलिका नाऽवलोक्यन्ते, तथा इन्द्रियाणि च प्रतिपूर्णानि, न चक्षुःश्रोत्राद्यवयवविकलतेति भावः, अथैतदारोहादिकमोज उच्यते तद्यस्याति स ओजस्वी, तेजः पुनर्देहे-शरीरे अनपत्रप्यता-अलजनीयता, दीप्तियुक्तत्वेनापरिभृतत्वं, तद्विद्यते यस्य स तेजस्वीतिगतं गणधरप्ररूपणाद्वारम् ,अथ क्षेत्रमार्गणाद्वारमाह-'खित्तस्स उ०' व्याख्या-क्षेत्रस्य संयतीप्रायोग्यस्यानुपूर्ध्या 'थुइमंगलमामंतण' इत्यादिना पूर्वोक्तप्रकारेण प्रत्युपेक्षणा गणधरेण कर्त्तव्या, आह-किं-केन हेतुना गणधरः स्वयमेव प्रत्युपेक्षणाय ब्रजति ?, उच्यते, यो बलीवईश्वारी चरति स एव तृणभारं वहति,एवं यो निर्ग्रन्थीगणस्याधिपत्यमनुभवति स एव सर्वमपि तच्चिन्ताभरमुदहति, आह-संयत्यः किमर्थं न गच्छन्तीत्युच्यते-'संजई०' व्याख्या, यदि संपत्यः क्षेत्र प्रत्युपेक्षितुं गच्छन्ति तत्राचार्यस्य चतुर्गुरवः आजादयश्च दोषाः, यथा शकुनिका पक्षिणी श्येनस्य गम्या भवति 'पेसिति यथा वा मांसपेसिका
Jain Education
For Personal and Private Use Only
www.jainelibrary.org