________________
श्रीप्रवचनपरीक्षा ४ विश्रामे
॥३०१ ||
श्रीजिनचन्द्रसूरिपट्टधरः कथितस्तदप्ययुक्तं, यतः श्रीजिनचन्द्रेण प्रसन्नचन्द्रः स्वपदे स्थापितः, श्री अभयदेवमूरिस्तु न शिष्यो न | चाध्यापितो नवाऽऽचार्यकृतः, किंतु जिनचन्द्रस्य गुरुभ्राता जिनेश्वरसूरिणैव जिनचन्द्रवदीक्षितोऽध्यापितः, सूरिकृतश्चेति, नहि सु| धर्मस्वामी गोतमस्वामिपट्टधरः किंतु श्रीवीरस्यैव, तथाऽयमपि श्रीजिनेश्वरसूरिपट्टधरो युक्तो, न पुनस्तल्लिखितविधिनेति । तथा श्रीउद्योतनसूरेः पट्टधरतया श्रीवर्द्धमानाचार्यो लिखितस्तदप्ययुक्तं, श्रीउद्योतनसूरिणा निजशिष्यः श्रीसर्वदेवसूरिः पट्टधरतया व्य|वस्थापितः, श्रीवर्द्धमानाचार्यस्तु चैत्यवासं परित्यज्य श्रीउद्योतनसूरिपार्श्वे चारित्रं गृहीत्वा विसंभोगिकः सन्नेव योगानुष्ठानपूर्वकसूत्रवाचनां गृहीतवान् परं विहारस्तदाज्ञामात्रेणेति, अत एव श्रीवर्द्धमाननूरिसंतानीयैः श्रीअभयदेवसूरि श्रीवर्द्धमान रिप्रभृतिभि|स्तथा तदनपत्यजिनवल्लभेनापि श्रीवर्द्धमान सूरिमवधीकृत्य स्वकृतग्रन्थप्रशस्त्यादौ श्रीवर्द्धमानसूरिपट्टपरम्परा लिखिता, न पुन| स्ततः प्रागपि सूरिमवधी कृत्येति, तत्र किं निदानमितिचेच्छ्रणु, तदीयाः प्राचीनाचार्याचैत्यवासिनस् षामभिधानमयुक्तम्, उद्योत| ननूरिस्तु विसंभोगित्वेन पट्टपरम्परायां लिखितुमशक्य इति बोध्यं यत्तु जिनदत्तापत्यीयाः साम्प्रतं लिखन्ति तचैत्यवासिसंता| नतानत्रपाकरेति मत्वा संबन्धमात्रेणापि पट्टधरत्वकल्पना बोध्या, तथा येषां श्रीउद्योतनसूरिः पट्टधरतया पट्टावल्यां लिखितस्तेषां सर्वेषामपि श्रीसुधर्मस्वामिन आरभ्य सदृश्येव पट्टावली दृश्यते, यथा मडाहडगच्छपट्टावली, तथा कुपाक्षिका अपि पूर्णिमीयकादयस्तदनु निर्गतास्तेषामपि श्रीउद्योतन वरितः पूर्व श्रीसुधर्मस्वामिन यावत् न पडावली भेदः, खरतरस्य तु न तदनुकारगन्धोऽपि, किंतु ये ये | युगप्रधानत्वादिगुणैर्विख्यातास्ते ते परस्परं गुरुशिष्यसंबन्धाभावेऽप्यनुक्रमतो व्यतिक्रमतोऽननुक्रमतोऽन्धयुद्धन्यायेन समुदायीकृत्य संख्यापूर्तिर्विहिता तैः नन्वन्धन्यायः कथमितिच्छृणु, चान्द्रकुलं तावत्सर्वैरपि वर्ण्यते तच्च श्रीचन्द्रसूरेजतं, स च श्रीवत्रसेन शिष्यः
Jain Education International
For Personal and Private Use Only
खरतरप
ट्टावलीविचारः
॥३०१ ॥
www.jainelibrary.org.