SearchBrowseAboutContactDonate
Page Preview
Page 297
Loading...
Download File
Download File
Page Text
________________ श्रीप्रवपरीक्षा ४ विश्रामे ॥२६३॥ | कैश्विदाचार्यैस्तीर्थकरानुपदेशेन संस्थितिः कृता यथा - नास्माभिर्महाकल्पाद्यतिशय श्रुतमन्यगण सत्काय देयमिति, एवं च योऽन्य| गणसत्काय न तद्ददाति स धर्मं त्यजति, न गणस्थिति, जिनाज्ञाननुपालनात्, तीर्थकरोपदेशो ह्येवं सर्वेभ्यो योग्येभ्यः श्रुतं दातव्यमिति प्रथमः, यस्तु ददाति स द्वितीयः, यस्त्वयोग्येभ्यस्तद्ददाति स तृतीयः, यस्तु श्रुताव्यवच्छेदसमर्थस्य परशिष्यस्य स्वकी - यदिग्बन्धं कृत्वा श्रुतं ददाति तेन न धर्मो नापि गणसंस्थितिस्त्यक्तेति" श्रीस्थानाङ्गवृत्ताविति गाथार्थः ||२३|| अथ गच्छा| न्तरीयदिग्बन्धेन शिष्यादिव्यवहारो न स्यात् तत्कथमिति ज्ञापनाय गाथामाह तेणं पज्जोसवणाकप्पंमि थिरावलीइ भणिआई । साहाकुलपमुहाई नामेहिं नेव दीसंति || २४ ॥ येन कारणेन गच्छान्तरीयदिग्बन्धेनात्मीयसंबन्धि शिष्यादि न स्यात् तेनैव कारणेन पर्युषणाकल्पे स्थविरावल्यां शाखाकुलप्रमुखानि | भणितानि यानि तानि नामभिः - यथोक्ताभिधानैर्न दृश्यन्ते, अयं भावः - जिनवल्लभवत् संतानरहिता ये परलोकं गतास्तत्कृत| दिग्बन्धादिविकलास्तत्संताना भवितुं नार्हन्त्यतो व्युच्छिन्नसंतानास्तेऽभूवन् ततः कथं तेषां नामभिस्ते लभ्यन्ते १, न पुनः साक्षाद दृश्यन्त इतिगाथार्थः ||२४|| अथ प्रकृते योजयति जिणदत्तदिसाबंधो न कओ जिणवल्लहेण तस्सावि । न कओऽभयदेवेणं कह मण्णुण्णंपि संबंधो ॥ २५ ॥ 'जिनदत्त दिग्बन्धः ' जिनदत्तस्य सोमचन्द्रापरमूलकस्य दिग्बन्धः जिनवल्लभेन न कृतः, तस्यापि - जितवल्लभस्याप्यभयदेवेन श्री अभयदेवसूरिणा न कृतः, एवं च सति कथमन्योऽन्यमपि - परस्परमपि संबन्धः - गुरुशिष्यभावलक्षणः स्यात् ?, न कथमपीतिगाथार्थः ||२५|| अथोक्तानां त्रयाणामपि संबन्धाभावे दृष्टान्तपुरस्सरमाश्वर्यमाह Jain Educationa International For Personal and Private Use Only श्रीअभयसूर्यादिभिः संबन्धघटना ॥२६३॥ www.jainelibrary.org.
SR No.600171
Book TitlePravachan Pariksha Part 01
Original Sutra AuthorDharmsagar
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1937
Total Pages498
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy