SearchBrowseAboutContactDonate
Page Preview
Page 295
Loading...
Download File
Download File
Page Text
________________ श्रीप्रवपरीक्षा ४ विश्रामे ॥२६१॥ जिणवल्लह जिणदत्तायरि अपयं जारगग्भसारित्वं । सीमंतसमं पुत्थयलिहणं को कुणइ तस्सावि ? ||२०|| जिनवल्लभजिनदत्तयोराचार्यपदं जारगर्भसदृक्षं, तस्यापि पट्टस्य सीमन्तसमं पुस्तकलिखनं- गणधरसार्द्धशतकादिग्रन्थरचनया | पुस्तके लिखने कः करोति ?, न कोऽपि करोतीत्यर्थः यत्तु खरतरेण कृतं तत्सान्वर्थनामत्वाद्युक्तमेवेत्यक्षरार्थः । भावार्थस्वयं - चैत्य - | वासिशिष्यत्वेन न गच्छसम्मतो भविष्यतीतिकृत्वा श्रीअभयदेवसूरिणा नाचार्यपदं दत्तम्, अन्त्यसमये प्रसन्नचन्द्राचार्यस्योक्तंयन्मत्पट्टे जिनवल्लभः स्थाप्यस्तेनाप्यन्त्यसमये देवभद्राचार्य:, तेन च जिनवल्लभ कृतसमुदायसाक्षिकं चित्रकूटे गत्वाऽऽचार्यपदं कृतं, श्री अभयदेवसूरिणा च स्वपट्टे श्रीवर्द्धमानाचार्यः स्थापित इत्यादि जिनवल्लभपदस्थापनस्वरूपं गणधर सार्द्धशतके लिखितं, तच्च प्रागू तत्संबन्धव्यतिकरेऽत्रैव दर्शितम्, एवं जिनदत्तस्यापि व्यतिकरः प्राग् प्रदर्शितो बोध्यः, एवं तयोः पदं विचार्यमाणं | जारगर्भ इवापन्नं, जारगर्भस्य च सीमन्तकरणं न केनापि श्रुतं दृष्टं वा ?, तद्वदेतादृशो व्यतिकरः पुस्तके लेखनानर्होऽपि खरतरे| णाविमृश्य लिखितः, नह्येवंविधव्यतिकरः पदस्य दातुरनुज्ञातुः उपादातुर्वा गौरवकरः, किंतु महालज्जाकरः, नचैवं तदीयसमुदायस्यापि गौरवमिति सूक्ष्मघिया पर्यालोच्यमितिगाथार्थः। २०|| अथ जारगर्भसादृश्यज्ञापनाय दिशमाह - पवजा उट्टावणुवहणसुण्णोवि चिइनिवासीवि । सिद्धंतपारगामी सूरीवि विगोयणुत्तीए ॥ २१ ॥ जिनवल्लभस्तावत् क्रीतकृतोऽपि चैत्यवास्यपि प्रव्रज्योपस्थानोपधानशून्यः, नहि जिनवल्लभेन कस्यापि संविग्रस्य पार्श्वे प्रव्रज्या गृहीता, तदभावाच्च न केनाप्युपस्थापितः, उपस्थापनाऽभावान्नोपधानमपि, आवश्यकादिश्रुताराधनतपो विशेषयोगानुष्ठानाद्यपि न जातम्, | एतैः शून्यो-रहितः सिद्धान्तपारगामी संविग्रश्री अभयदेवसूरिपार्श्वे संपन्नः, तथाभूतोऽपि रहः कर्णजापपरम्परया सूरिरपि, सोऽपि Jain Educationa International For Personal and Private Use Only श्री अभयसूर्यादिभिः संबन्धघटना ।। २६१ ॥ ww.jainelibrary.org
SR No.600171
Book TitlePravachan Pariksha Part 01
Original Sutra AuthorDharmsagar
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1937
Total Pages498
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy