________________
श्रीप्रवचनपरीक्षा
४ विश्रामे
॥२५९॥
| गाथार्थः || १५ || अथ सर्वमपि वर्णनं नासत्यमित्याह -
पाओगहणा एवं सचमसचा य अणुहरा सेसा । जह जिणसासणमेगं सबं सेसा असचा य ॥ १५ ॥ 'वणवणं' ति गाथायां प्रायोग्रहणात् - प्रायः शब्दोपादानादेकं सत्यं यस्यानुकारो विधीयते तत्सत्यं तत्तु एकमेव भवति, | शेषा अनुकारविधायिन एते तीर्थवर्त्तिनः साध्यादय इत्थं कुर्वन्त्यतोऽस्माभिरपीत्यमेव विधेयमित्येवंरूपेण राजचेष्टाविधायिनो नटा इवासत्याः, वर्णनीयगुणानाश्रया इत्यर्थः, तत्र दृष्टान्तमाह- ' जहे 'त्यादि, यथा जैनशासनमेकमेव मोक्षमार्गतया सत्यं, शेषाः सर्वेऽपि सुगतादयोऽसत्या एव, मोक्षार्थमपि निजमतिविकल्पितक्रिया विधायिनोऽसर्वज्ञमूला अकिञ्चित्करा, इतिगाथार्थः ।। १६ ।। अथ 'निक्कासिउ'त्ति त्रयोदशगाथायां वर्णकवचनमकिञ्चित्करतया दर्शितं यच्च तीर्थसम्मतं तत्सम्यगित्यप्युक्तं तेन तीर्थसम्मतं यज्जि| नवल्लभविषयं तदाह
जिणवल्लहो अ एवं गुरुणा चत्तो न केणवंगिकओ । अप्पबिओ बहु भमिओ कइजणअसुभाण उदएणं ॥ १७ ॥
एवं जिनशेखरादिदृष्टान्तेन, जिनवल्लभोऽपीतिगम्यं, सोऽपि गुरुणा त्यक्तः, षट्कल्याणकप्ररूपणादिकं किञ्चिनिमित्तमासाद्य चैत्यवासिजिनेश्वरसूरिणा निष्काशितो न केनाप्यङ्गीकृतः, अहं चैत्यवासं त्यक्ष्यामीति वाङ्मात्रमुद्भाव्य श्री अभयदेवसू रिसमीपं गतः तेनापि परीक्षयाऽनुचितोऽयमिति ज्ञात्वा नाभ्युपगतः परं लोकानुवृत्या त्वं शोभनां क्रियां कुरु पश्वाद्यथावसरं ज्ञास्यते इत्युक्त्वा प्रत्युत्तरितः सोऽपि धौर्थ्याद् गुरुवचनं प्रमाणमिति वचनमुक्त्वा चित्रकूटादौ गतः, किंलक्षणः - आत्मद्वितीयः, एको | जिन शेखरोऽपरश्वात्मेति द्विस्थानकेन 'बहु भ्रान्तः' बहुकालं बहुक्षेत्रं च भ्रान्तः- पर्यटितः, 'कतिजनाशुभानामुदयेन' कतिपयजना
Jain Education International
For Personal and Private Use Only
जिनवल्लभजिनदत्तविचारणा
॥२५९॥
www.jainelibrary.org