SearchBrowseAboutContactDonate
Page Preview
Page 270
Loading...
Download File
Download File
Page Text
________________ श्रीप्रकचनपरीक्षा ४विश्रामे ॥२३६॥ जिनवल्लभवृत्तम् ततस्तेनापि स्वायुःपरिसमाप्तिसमये श्रीदेवभद्राचार्याणां विज्ञप्तं यत्सुगुरूपदेशो युष्माभिरेव सफलीकार्योऽवश्यमेव, मया कर्तुं न| शकितः, ततः प्रतिपन्नं-वर्तमानयोगेनैवं करिष्यामः, समाधानं भवद्भिर्विधेयमिति, जिनवल्लभवाचनाचार्योऽपि कतिचिदिनानि पतनभूमौ विहत्य न तादृशो विशेषेण बोधः कस्याप्यत्र गुर्जरत्रामण्डले विधातुं शक्यते येन समाधानमुत्पद्यते (इति) मनसिकत्यात्मद्वितीय आगमविधिना सुशकुनेन भव्यजनमनस्सुक्षेत्रभृमिकासु भगवद्भणितविधिधर्मबीजनिक्षेपणार्थ श्रीमेदपाटदेशादिषु विहारं चकार, ते च देशाः सर्वेऽपि प्रायेण चैत्यनिवास्याचार्यैाप्ताः, सर्वोऽपि लोकस्तद्वासितो वर्त्तते, किं बहुना?, तादृशदेशान्तरस्थग्रामनगरादिषु विहारं विदधानश्चित्रकूटाचलदुर्गे प्राप्तः, यद्यपि तत्रत्यक्षद्वैर्भावितो लोकस्तथाध्ययुक्तं किमपि कर्तुं न शक्नोति, श्रीपत्तने श्रीगुरूणां महत्याः प्रसिद्धेः श्रवणात , ततो जिनवल्लभगणिना स्थानं याचिताः तत्रत्यश्राद्धाः, तैश्चोक्तं-चण्डिकामटोऽस्ति यदि तत्र तिष्टथ, ततो जिनवल्लभगणिना ज्ञातं-दुष्टाभिप्रायेणैवं भणन्ति, तथापि तत्रापि स्थितस्य देवगुरुप्रसादाद्भद्रं | भविष्यतीतिचिन्तयित्वा भणितास्ते-तत्रैव बहु मन्यध्वं यूयं येन तिष्ठामः, तेरुक्तम्-अतीव सम्मतमस्माकं,तिष्ठथ यूयं, ततो देवगुरुन् संस्मृत्य देवतां चानुज्ञाप्य स्थिताः तत्र, देवता तेषां ज्ञानेन ध्यानेन संतुष्टा सती दत्तावधाना रक्षति, ते च श्रीजिनवल्लभवाचनाचार्या इत्यादि यावत् श्रावका अपि स्तोकं स्तोकेन समागच्छन्ति, ततः सिद्धान्तवचनानि श्रुत्वा तदनुसारेण क्रियामपि दृष्ट्वा साधारणसट्टकसुमतिपल्हकवीरकमानदेवधंधकसोमिलकवीरदेवादिभिः श्रावकैः समाधिना श्रीजिनवल्लभवाचनाचायों गुरुत्वेन प्रतिपेदे, श्रीजिनवल्लभगणीशानां गुरूपदेशेनातीतानागतादिज्ञानं ज्योतिषज्ञानं चातिशयितमासीत , भगवदन्तिके साधारणश्राद्धः |परिग्रहपरिमाणं ग्रहीतुं प्रवृत्तः, गणिमित्रैः स उक्तः-कियन्मानं सर्वसंग्रहे करिष्यसीति ?, साधारणः-भगवन्! मृतं विंशत्या HIMSUTRAINITHALIPANI MAHIMAHARAULINE DilliAdhunnuliamadunihaal Munna RHINA २३६॥ Jan Educationem bon For Personal and Private Use Only www. byorg
SR No.600171
Book TitlePravachan Pariksha Part 01
Original Sutra AuthorDharmsagar
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1937
Total Pages498
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy