SearchBrowseAboutContactDonate
Page Preview
Page 181
Loading...
Download File
Download File
Page Text
________________ श्रीप्रवचनपरीक्षा ३ विश्रामे ॥ १४७॥ 'कंचणमणिसोवाण' मित्यादिगाथास्थाने 'आजम्मनिरतिचारं पोसहधम्मं गुरुण पयमूले। जो कुणइ सुद्धभावो तओवि तवसंजमो अहिउ ॥ १ ॥ त्ति गाथामकथयिष्यन् तच्च नोक्तं, कुत इतिपर्यालोचनया व्यवहारतः श्रावकधर्मे प्रासादप्रतिमादिकं तथा तथाविधपूजादिकृत्यं च प्रवचनगौरव हेतुर्महाफलं न तथा सामायिकादि, अत एव श्रीवज्रस्वाम्यपि कुसुमादिद्रव्य पूजानिमित्तं विद्याप्रयोगेण श्रीदेवताप्रभृतिसमीपे गत्वा कुसुमान्यानीय श्रावकेभ्यो दत्तवान्, साधवोऽपि कायोत्सर्गे " पूअणवत्तिआए " ति पाठोच्चारेण पूजाप्रत्ययिकफलमभिलषितवन्तो, न पुनः 'पोसहवत्तिआए'ति वचसा पौषधादिप्रत्ययकं फलं, किंच - साधुकायोत्सप्रत्ययिकफलापेक्षया कुसुमादिनाऽर्हत्पूजाप्रत्ययकं फलं महत्संभाव्यते, अन्यथा साधोरपि "पूअणवत्तिआए" इत्यादिवाकू पद्धत्या तथाप्रार्थनाया असंभवात्, नचैवं सारम्भोऽपि धर्मो निरारम्भधर्मापेक्षया शोभनः संपद्येत, तच्च न युक्तमिति शङ्कनीयं, प्रागुक्तगजदृष्टान्तेन कथञ्चिच्छोभनतया अपीष्टत्वादित्यलं विस्तरेणेति गाथार्थः ॥ २३ ॥ अथ प्रासादापेक्षयाऽधिको यस्तपः संयमो भणितः स च साधुसंबंध्येवेत्यत्र युक्तिमाह जं तेण संजमेणं मुत्तिसुहसंपयावि इअरेणं । अच्चुअकप्पो भणिओ महानिसीहंमि फुडमेअं ||२४|| यद् - यस्मात्कारणात्तेन-संयमेन मुक्तिसुखसंपदपि भणिता श्रीमहानिशीथे 'कंचणमणिसोवाण' मित्यादिगाथायां, “तओवि तवसंजमो अनंतगुणो"त्ति भणितं, तेन तपःसंयमेन “तवसंजमेण बहुभव" इत्यादिगाथायां मुक्तिसुखप्राप्तिर्भणिता इत्यनन्तरगाथाव्याख्यायां प्रदर्शितं तच्च साधुतपः संयममन्तरेणासंभवि, इतरेण तद्व्यतिरिक्तेन प्रासादादिधर्मकृत्येनाच्युतदेवलोकं यावद्गतिरुक्ता, एतच्च श्रीमहानिशीथेः स्फुटमित्यत्र विचारणया येन तपःसंयमेनाच्च्युतादूर्ध्वं गतिर्भवति स एव ग्राह्य इतिगाथार्थः ॥ २४ ॥ Jain Education International For Personal and Private Use Only द्रव्यभावस्तवौ ।।१४७।। www.jainelibrary.org
SR No.600171
Book TitlePravachan Pariksha Part 01
Original Sutra AuthorDharmsagar
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1937
Total Pages498
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy