SearchBrowseAboutContactDonate
Page Preview
Page 122
Loading...
Download File
Download File
Page Text
________________ श्रीप्रवचनपरीक्षा २ विश्रामे 11 66 11 Jain Educationa Inte | उत्कर्षतोऽपि द्वितीयायां वालुकाप्रभायामुत्पद्यन्ते, नाधः, शकुनयः पङ्कप्रभायां यावदुत्पद्यन्ते नाध इत्यादि, यावत् मत्स्याः सप्तम्यामपीति, ऊर्ध्वं तु सर्वेषामपि समं गमनं, सहस्रारं यावत्सर्वेषामप्युत्पादात्, अतः सरीसृपादीनामधोगमने वैषम्येऽपि ऊर्ध्वगमने शक्तिसाम्यमेवेति दिगम्बरोद्भाविता व्याप्तिर्निर्मूलमुन्मूलितैवेतिगाथार्थः ||२४|| अथोक्तं प्रकृते योजयति- एवं धीपुरिसाणं भेमि अहोगई च अहिगिच्च । उद्धंगमणे भेओ नत्थि त्थित्तेण श्रीमुक्ती ॥ २५ ॥ ' एवं ' प्रागुक्तसरीसृपादिदृष्टान्तेनाधोगतिमधिकृत्य स्त्रीपुरुषयोर्भेदेऽपि वैषम्येऽपि ऊर्ध्वगमने भेदो नास्ति, तेन कारणेन स्त्रीणां मुक्तिरस्तीतियुक्तिरातुरस्य कटुकौषधपानकल्पाऽनिच्छतोऽपि दिगम्बरस्य गलविलग्नेति गाथार्थः || २५ || अथ स्त्रीणां चारित्रानङ्गीकारे त्रिविधसङ्घापच्या पादोनं तीर्थं संपद्येतेति विचारबाह्यो दिगम्बरः शङ्कते - अबला चीवरवरिआ चीवरवरिआण होइ ममकारो। ममयापरिग्गहो खलु तेणं नो थीण चारितं ॥ २६ ॥ अबलाः–तुच्छसच्चाः स्त्रियः 'चीवरवरिअ'त्ति चीवराणि - वस्त्राणि तैर्वृता - आच्छादिताः भवन्ति, चीवरावृतानां च ममकारो, ममता च परिग्रहः, येनागमः - " मुच्छा परिग्गहो वृत्तो"त्ति, तेन कारणेन परिग्रहवच्चेन स्त्रीणां चारित्रं न भवतीतिः गाथार्थः ॥ २६ ॥ अथ चरणाभावे किं स्यादित्याह - चरणाभावा मोक्खो इत्थीणं नत्थि तत्थ को दोसो ? । नहि सामग्गिअभावा कज्जं उप्पज्जए किंचि ||२७|| चरणाभावात् स्त्रीणां मोक्षो नास्ति तत्र को दोषः ?, कोऽपि नास्तीत्यर्थः, हिः - यस्मात् सामय्यभावात् - अविकलकारणाभावान्न किञ्चिद् घटादिकं कार्यमुत्पद्यते, तथा चारित्राभावात् स्त्रीणां मोक्षाभाव इति गाथार्थः ||२७|| अथ दिगम्बर पूर्वपक्षं दूषयितुमाह For Personal and Private Use Only त्रयमुक्तौ दिगंबरपक्षः ॥ ८८ ॥ www.jainelibrary.org.
SR No.600171
Book TitlePravachan Pariksha Part 01
Original Sutra AuthorDharmsagar
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1937
Total Pages498
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy