________________
श्रीउत्तरा० चूर्णौ ३६ जीवाजीवः
1182011
*
योगद्वारचतुष्टयं पूर्ववद् व्यावर्ण्य नामनिष्कण्णे निक्षेपे अणगारमग्गगती 'अणगारे निक्खेवो० ॥ ५४९-५०।६६३ ॥ इत्यादि २१ प्रमादवर्जनं गाथात्रयं व्यतिरिक्तं निह्नवादि, भावे सम्यग्दृष्टि: अगारवासाद्विनिर्मुक्तः, उक्तो नामनिष्फण्णो निक्षेपः । इदानीं सूत्रालापकस्यावसरः अस्माद्यावत् सूत्रं निपतितं तावद्वक्तव्यं, सूत्रं चेदं - 'सुणेह मे एगमणे' इत्यादि (१३५३-६६८) सर्व ' पंज संगे ' एसो संग ज्ञात्वा परिवर्जयेद्, एकान्ते परेण आत्मार्थकृते वासं तत्राभिरोचयेत् नैव स्वयं गृहाणि कुर्वीत नैव कारापयेत् नैवानुजानीयात्, यस्मात्तत्र सस्थावराणां दृश्यते वधः, तथा भक्तपाने च करणकारणाणुमोदने सस्थावराणां वधः, इन्धनं प्राप्य विसर्पते अग्निं, सर्वतो धार, संयमयात्रार्थं युज्जीत, न रसार्थ, न वन्दनपूजनादि प्रार्थयेत् धर्म्मशुक्ले ध्याने सदा ध्यायेत्, पश्चिमे काले आहारपरित्यागं कृत्वा, 'निर्ममो निरहंकारों, वीतरागो निराश्रवः । संप्राप्य केवलं ज्ञानं शाश्वतं परिनिर्वृतः ॥ ' इति ब्रवीमि नयाः पूर्ववत् । इति पञ्चत्रिंशत्तमं अध्ययनं समाप्तम् ॥
उक्तं पञ्चत्रिंशत्तमं, इदानीं पत्रिंशत्तमं, तस्य कोऽभिसम्बन्धः १, पञ्चत्रिंशत्तमे अनगारगुणा अभिहिताः, षत्रिंशत्तमे जीवाजीवविभक्तिरभिधीयते, अणगारेन च जीवाजीवविभक्तिर्ज्ञातव्या, अनेन सम्बन्धेनायातस्यास्य अध्ययनस्यानुयोगद्वारचतुष्टयं पूर्ववद् व्यावर्ण्य नामनिष्पन्ने निक्खेवे जीवाजीवविभक्तिः, 'निक्खेवो जीवंभि० ॥ ( ५५२-३।६७१) । इत्यादि गाथाद्वयं, व्यतिरिक्तं गुणपर्यायवियुक्तं जीवद्रव्यं, भावे गुणपर्यायसहितं, जीवपरिणामो दशविधः पंचेन्द्रियाणि क्रोधादयश्चत्वारः मनश्च, सहवर्त्तिनो गुणाः, क्रमवर्त्तिनः पर्याया, गुणाः प्रशस्ताः अप्रशस्ताश्च प्रशस्ता ज्ञानादयो, अप्रशस्ता क्रोधादयः, पर्याया नरकादिभवाः, 'निक्खेवो उ अजीवे० " ।।५५४-५।६७१।। इत्यादि गाथाद्वयं व्यतिरिक्तं गुणरहितं अजीवद्रव्यं, भावे गुणपर्यायसहितं अजीवद्रव्यं, परिणामो दशविधः शब्द
॥२८० ॥