________________
श्रीउत्तरा० (
कम
प्रकृत्य०
॥२७७॥
व्यभिधीयन्ते, प्रमादवशगो जीवः कर्म बध्नाति, अनेन सम्बन्धेनायातस्यास्याध्ययनस्यानुयोगद्वारचतुष्टयं पूर्ववद् व्यावर्ण्य नामनिष्पत्रे निक्षेपे कम्मपगडी 'कम्मंमि निक्खेवो० ॥ इत्यादिगाथा अष्ट (५३०.१-२-३-४-५-६-७१६४०. नियुक्ती)) व्यतिरिक्तं कर्म द्रव्यं च नोकर्म्मद्रव्यं, अनुदयः कर्म्मणो, नोकर्म्मद्रव्यं लेप्यकम्र्मादि, भावे कर्मणां उदयः, व्यतिरिक्तो द्रव्यप्रकृतिः कर्मणो कर्माभ्यां कर्मणि अनुदयः, नोकर्म्म ग्रहणप्रायोग्यानि मुक्तानि द्रव्याणि भावे मूलोत्तरप्रकृतीनां उदया, पयतिट्ठिति अणुभागो | पदेसकम्मं च सुट्ठ णाऊणं । एतेसि संवरे खलु खवणे उ स्यात्रि जइतन्त्रं ॥ १ ॥ उक्तो नामनिष्पन्नो निक्षेपः, इदानीं सूत्रालापकस्यावसरः अस्माद्यावत्सूत्रं निपतितं तावद्वक्तव्यं, सूत्रं वेद- 'अट्ठ कम्माई बोच्छामी' त्यादि (१२६७-६४१) सर्वे, तेषां कर्मणां चतु:प्रकारो बन्धो भवति प्रकृतिबन्धः स्थितिबन्ध अनुभागबन्ध प्रदेशबन्ध इति प्रकृतिशब्देन स्वभावो भेदश्वाभिधीयते, स्थितिः कालावस्थानं, अनुभावो यो यस्य कर्म्मणः शुभो अशुभो वा विपाकः, प्रदेशबन्धः जीवप्रदेशानां कर्म्म पुद्गलानां च सम्बन्धः, तत्र प्रकृतिबन्धो द्विविधः मूलोत्तरभेदः, अष्टौ मूलप्रकृतयः, तद्यथा- ज्ञानावरणीयं दर्शनावरणीय वेदनीयं मोहनयिं आयुष्कं नामं गोत्रं अन्तरायामिति, ज्ञानमावृणोतीति ज्ञानावरणीयं, दर्शनमावृणोतीति दर्शनावरणीयं वेदनां करोतीति वेदनीयं, मुह्यतीति मोहनीयं, येन नारकादिभावस्तिष्ठति तदायुष्कं गतिजात्यादिभिः प्रकारैर्नामयतीति नाम, प्रधानमप्रधानं वा करोतीति गोत्रं, अन्तरायं करोतीति अन्तरायिकं, इदानीं उत्तरप्रकृतयोऽभिधीयते ज्ञानावरणं पंचप्रकारं आभिनिवोधिक श्रुतावधिमनः पर्याय केवलानि, एषामावरणं, दर्शनावरणं नवभेदं चक्षुरचक्षुरवधिकेवलानि तेषामावरणं, निद्रा निद्रानिद्रा प्रचला प्रचलाप्रचला स्त्यानार्द्धरिति, एषामुदयं करोतीति, वेदनीयं सातमसातं च, तयोरुदयं करोतीति, मोहनीयं अष्टाविंशति भेदं, तत्समासतो द्विविधं दर्शनमोहं चरितमोहं, दर्शनमोहं
प्रमादवर्जनं
॥२७७॥