________________
नन्दिसूत्रम् ।
॥ २ ॥
इति वा नन्दि:, - इदमेव प्रस्तुतमध्ययनम्, आविष्टलिङ्गत्वाच आध्ययनेऽपि प्रवत्तमानस्य नन्दिशन्दस्य पुंस्त्वं, ' इन् सर्वधातुभ्यः' (कौमुदी० उणादौ ) इत्यौणादिक इन् प्रत्ययः, अपरे तु नन्दीति पठन्ति, ते च 'इक् कृष्यादिभ्य' ( महाभाष्ये ० ३ अ० ३ पा० १ आ० ) इति सूत्रादिकप्रत्ययं समानीय स्त्रीत्वेऽपि वर्त्तयन्ति, ततश्च ' इतोऽक्त्यर्था ' दिति [ सि. २-४-३२ ] ङीप्रत्ययः । ' जयति ' इन्द्रिय विषयकषायघातिकर्म्मपरीषहोपसर्गादिशत्रुगणपराजयात् सर्वानप्यतिशेते, इत्थं सर्वातिशायी च भगवान् प्रेक्षावतामवश्यं प्रणामार्हस्ततो जयतीति, किमुक्तं भवति ? तं प्रति प्रणतोऽस्मोति, किं विशिष्टो जयतीत्याह
जय जगजीवजोणी - वियाणओ जगगुरू जगाणंदो । जगनाहो जगबंधू- जयइ जगपियामहो भयवं ॥ १ ॥
'जगज्जीवयोनिविज्ञायक: ' जगत्-धर्माधर्माकाशपुद्गलास्तिकायरूपं ' जगत्त्रयं चराचरं' इति वचनात् जगच्च जीवाव योनयश्च जगज्जीवयोनयः तासां विविधं - अनेकप्रकारमुत्पाताद्यन्तधर्मात्मकतया जानाति इति विज्ञायको जगज्जीवयोनिविज्ञायकः, अनेन केवलज्ञानप्रतिपादनात् स्वार्थसंपदमाह, तथा जगत् गृणाति यथा व्यवस्थितं प्रतिपादयति शिष्येभ्य इति जगद्गुरुः । यथावस्थितसकेलपदार्थप्रतिपादक इत्यर्थः । तथा 'जगदानंद: ' इह जगच्छब्देन संज्ञिपंचेंद्रियपरिग्रहः, तेषामेव भगवदर्शनदेशनादित आनंदसंभवात्, ततश्च जगतां - सञ्ज्ञिपंचेन्द्रियाणाममृतस्यन्दिमूर्तिदर्शनमात्रतो निःश्रेयसाभ्युदय साधम्र्योपदेशद्वारेण चानन्दहेतुत्वादैहिकामुष्मिकप्रमोदकारणत्वात् जगदानंद:, तथा 'जगन्नाथः ' इह जगच्छन्देन सकलचराचरपरिग्रहः,
१- आविष्ट - आगृहीतं प्रतिनियतं लिङ्गा यैस्ते आविष्टलिङ्गाः, लिङ्गान्तरशब्द संबंवेऽपि न स्वलिङ्गा जहति इत्यर्थः ॥
"
अवचूरीसमलङ्कृतम् ।
॥२॥