________________
नन्दिसूत्रम्
अवचूरिसालंकृतम्
॥२१॥
जिणपिया समुप्पण्णो ॥४॥" तथा 'अमर' इत्यादि, विविधेषु परिवर्तेषु-भवभ्रमणेषु जंतूनां इति गम्यते । अमरनरतिर्यगनिरयगतिगमनं, एवमादिका गंडिका बहब आख्यायंते । सोऽयं गंडिकानुयोगः।
अथ कास्ताः चूलाः ?, इह चूला शिखरं उच्यते । यथा मेरौ चूला, तत्र चूला दृष्टिवादे परिकर्मसूत्रपूर्वानुयोगोऽनुक्तार्थ संग्रहपरा ग्रंथपद्धतयः, अत्र सूरिगह-चूला आदिमानां चतुर्णा पूर्वाणां, शेषाणि पूर्वाणि अचूलकानि, ता एव चूला आदिमानां चतुर्णा पूर्वाणां प्राक् पूर्ववक्तव्यताप्रस्तावे चूलावस्तूनि इति भणिताः, एताश्च सर्वस्यापि दृष्टिवादस्य उपरि किल स्थापिताः तथैव च पठ्यते । ततः श्रुतपूर्वते चूला इव राजते इति चूला इति उक्तः, तासां च चूलानां इयं संख्या-प्रथमपूर्वसत्काः चतस्रः द्वितीयसत्का द्वादश तृतीयपूर्वसत्का अष्टौ चतुर्थपूर्वसत्का दश । सर्वसंख्यया चूलिका चतुस्त्रिंशत् । अथ एता चूलिकाः ।।
दिहिवायस्सणं' इत्यादि, पाठसिद्धं, नवरं संख्येयानि वस्तूनि, तानि च पंचविसतिउत्तरे द्वे शते, कथं चेदिति उच्यते । इह प्रथमे पूर्व दश वस्तूनि द्वितीये चतुर्दश तृतीये अष्टौ चतुर्थे अष्टादश पंचमे द्वादश षष्ठे द्वे सप्तमे षोडश अष्टमे त्रिंशत् नवमे विंशति दशमे पंचदश एकादशे द्वादश द्वादशे त्रयोदश त्रयोदशे त्रिंशत् चतुर्दशे पंचविंशतिः । सर्वसंख्यया च अमूनि द्वे शते पंचविंशति अधिके, तथा संख्येयानि चूलवस्तूनि, तानि च चतुस्त्रिंशत् संख्यकानि । वस्त्वंतरवर्ती अधिकारविशेषः प्राभृतं प्राभृतांतरवर्ती अधिकारविशेषः प्राभृतप्राभृतं ।
सांप्रतं ओघतो द्वादशांगाभिधेयं उपदर्शयति । इच्चेइयंमि दुवालसंघे गणिपिडगे अणंता भावा अणंता अभावा अणंता हेउ अणंता अहेड अणंता
॥२१॥