SearchBrowseAboutContactDonate
Page Preview
Page 212
Loading...
Download File
Download File
Page Text
________________ नन्दिसूत्रम् अवचूरिसालंकृतम् ॥२१॥ जिणपिया समुप्पण्णो ॥४॥" तथा 'अमर' इत्यादि, विविधेषु परिवर्तेषु-भवभ्रमणेषु जंतूनां इति गम्यते । अमरनरतिर्यगनिरयगतिगमनं, एवमादिका गंडिका बहब आख्यायंते । सोऽयं गंडिकानुयोगः। अथ कास्ताः चूलाः ?, इह चूला शिखरं उच्यते । यथा मेरौ चूला, तत्र चूला दृष्टिवादे परिकर्मसूत्रपूर्वानुयोगोऽनुक्तार्थ संग्रहपरा ग्रंथपद्धतयः, अत्र सूरिगह-चूला आदिमानां चतुर्णा पूर्वाणां, शेषाणि पूर्वाणि अचूलकानि, ता एव चूला आदिमानां चतुर्णा पूर्वाणां प्राक् पूर्ववक्तव्यताप्रस्तावे चूलावस्तूनि इति भणिताः, एताश्च सर्वस्यापि दृष्टिवादस्य उपरि किल स्थापिताः तथैव च पठ्यते । ततः श्रुतपूर्वते चूला इव राजते इति चूला इति उक्तः, तासां च चूलानां इयं संख्या-प्रथमपूर्वसत्काः चतस्रः द्वितीयसत्का द्वादश तृतीयपूर्वसत्का अष्टौ चतुर्थपूर्वसत्का दश । सर्वसंख्यया चूलिका चतुस्त्रिंशत् । अथ एता चूलिकाः ।। दिहिवायस्सणं' इत्यादि, पाठसिद्धं, नवरं संख्येयानि वस्तूनि, तानि च पंचविसतिउत्तरे द्वे शते, कथं चेदिति उच्यते । इह प्रथमे पूर्व दश वस्तूनि द्वितीये चतुर्दश तृतीये अष्टौ चतुर्थे अष्टादश पंचमे द्वादश षष्ठे द्वे सप्तमे षोडश अष्टमे त्रिंशत् नवमे विंशति दशमे पंचदश एकादशे द्वादश द्वादशे त्रयोदश त्रयोदशे त्रिंशत् चतुर्दशे पंचविंशतिः । सर्वसंख्यया च अमूनि द्वे शते पंचविंशति अधिके, तथा संख्येयानि चूलवस्तूनि, तानि च चतुस्त्रिंशत् संख्यकानि । वस्त्वंतरवर्ती अधिकारविशेषः प्राभृतं प्राभृतांतरवर्ती अधिकारविशेषः प्राभृतप्राभृतं । सांप्रतं ओघतो द्वादशांगाभिधेयं उपदर्शयति । इच्चेइयंमि दुवालसंघे गणिपिडगे अणंता भावा अणंता अभावा अणंता हेउ अणंता अहेड अणंता ॥२१॥
SR No.600169
Book TitleNandisutram Avchuri
Original Sutra AuthorDevvachak
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year
Total Pages240
LanguageSanskrit
ClassificationManuscript, Agam, Canon, & agam_nandisutra
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy