________________
| अवचूरिसमलंकृतम्
नन्दिसूत्रम् कथाः, अथवा धर्मादनपेताः धाः धाश्च ताः कथाश्च धर्म्यकथाः, तत्र प्रथम श्रुतस्कंधे यानि एकोनविंशतिः ज्ञाता अध्ययनानि
तेषु आदिमानि दश ज्ञातानि ज्ञातानि एव न तेषु आक्षा(ख्या?)यिकादिसंभवः, शेषाणि पुनः यानि नव ज्ञातानि तेषु एकैकस्मिन् ॥१८७॥
चत्वारिंशानि पंच पंचाख्यायिकाशतानि ५४० भवंति। एकैकस्यां च पंच आख्यायिकायां पंच पंच उपाख्यायिकाशतानि २४३०००० है। एकैकस्यां च उपाख्यायिकायां पंच पंच आख्यायिकोपाख्यायिकाशतानि सर्वसंख्या १२१५०००००० एकविंशं कोटिशतं लक्षाः
पंचाशत् , ततः एवं कृते सति प्रस्तुतसूत्रस्य अवतारः, द्वितीये श्रुतस्कंधे दशधर्मकथानां वर्गाः, वर्गः समूहः, दश धर्मकथासमुदाया इत्यर्थः। तत एव च दशाध्ययनानि, एकैकस्यां धर्मकथायां-कथासमूहरूपायां अध्ययनप्रमाणायां पंच पंच आख्यायिकाशतानि, एकैकस्यां च आख्यायिकायां पंच पंच उपाख्यायिकाशतानि एकैकस्यां उपाख्यायिकायां पंच पंच आख्यायिक उपाख्यायिकाशतानि सर्वसंख्यया पंचविंशं कोटिशतं, इह नव ज्ञाताध्ययनसंबद्धाख्यायिकादि सदृशा या आख्यायिकादयः पंचशत-लक्षाधिक-एकविंशकोटिशतप्रमाणास्ताः अस्मात् पंचविंशकोटिशतप्रमाणात राशेः शोध्यते। ततः शेषा अपि अपुनरुक्ता अर्द्धचतुर्थाः कथानककोट्यो भवति । तथा चाह- 'एवमेव' उक्तप्रकारेण एव गुणेन शोधने च कृते ‘स पूर्वापरेण' पूर्वश्रुतस्कंधापरथुतस्कंधकथाः समुदिता अपुनरुक्ता 'अबुट्टाओ'त्ति अर्द्धचतुर्थाः कथानककोथ्यो भवंति इति आख्यातं तीर्थकरगणधरैः, तथा 'नायाधम्म कहाणं परित्ता 'वायणा' इत्यादि सर्व प्राग्वत् भावनीयं यावत् निगमनं ।
नवरं संख्येयानि पदसहस्राणि पदाग्रेण-पदपरिमाणेन, तानि च पंचलक्षाः षट सप्ततिः सहस्राः, पदं अपि च अत्र औपसर्गिक नेपातिकं नामिक आख्यातिकं मिश्रं च वेदितव्यं । अथवा इह पदं सूत्रालापकरूपं उपगृह्यते, ततः तथारूपपदापेक्षया संख्येयानि दीपदसहस्राणि भवंति । न लक्षाः, एकमुत्तरत्रापि भावनीयं ।।
ANGRECENSESEARNARIES
॥१८७॥