________________
नन्दिसूत्रम्
[समलंकृतम्
॥१५८॥
बुद्धिमतिविकल्पितं, खबुद्धिकल्पनाशिल्पिनिम्मितं इत्यर्थः । तद्यथा-'भारतं इत्यादि यावत् चत्वारि वेयासंगोवंगा भारतादयश्च ग्रंथा | लोके प्रसिद्धाः ततो लोकत एव तेषां स्वरूपं अवगंतव्यम् । ते च स्वरूपतो यथावस्थितवस्तु अभिधानविकलतया मिथ्याश्रुतमवसेयम् । एतेऽपि च खामिसंबंधचिंतायां भाज्यास्तथा च आह-एतानि भारतादीनि शास्त्राणि मिथ्यात्वपरिगृहीतानि भवंति । ततो विपरीताभिनिवेशवृद्धिहेतुत्वात् मिथ्या श्रुतम् । एतानि एव च भारतादीनि शास्त्राणि सम्यग्दृष्टेः सम्यक्त्वपरिगृहीतानि भवंति सम्यक्त्वेनयथावस्थितासारतापरिभावनरूपेण परिगृहीतानि तस्य सम्यग् श्रुतम् , तद्गतासारतादर्शनेन स्थिरतरसम्यक्त्वपरिणामहेतुत्वात् । अथवा मिथ्यादृष्टेः अपि सतः कस्यचित् एतानि भारतादीनि शास्त्राणि सम्यक् श्रुतं, शिष्य आह–कस्मात् ?, आचार्य आह–सम्यक्त्वहेतुत्वात् , सम्यक्त्वहेतुत्वं एवं भावयति, यस्मात् ते मिथ्यादृष्टयः तैः एव समयैः-सिद्धांतैः वेदादिभिः पूर्वापरविरोधेन यथा रागादिपरीत: पुरुषः तावन्नातींद्रियं अर्थमवबुद्ध्यते रागादिपरीतत्वात् अस्मादृशवत्, वेदेषु च अतींद्रियाः प्रायोऽर्था व्यावयेतेऽतींद्रियार्थदर्शी च वीतरागः सर्वज्ञो नाभ्युपगम्यते ततः कथं वेदार्थः प्रतीतः इत्येवमादिलक्षणेन नोदिताः संतः केचन विवेकिनः सत्यादय इव स्वपक्षदृष्टीः खदर्शनानि त्यति । भगवत्-शासनं प्रतिपद्यन्ते इत्यर्थः । तत एवं सम्यक्त्वहेतुत्वात् वेदादीनि अपि शाखाणि केषांचित मिथ्यादृष्टीनां अपि सम्यक् श्रुतं, तदेतत् मिथ्याश्रुतम् ।
से किं तं साइअंसपज्जवसि, अणाइअं अपज्जवसियं सुयं ? साइअंसपज्जवसि, अणाइअं अपज्जवसिअं सुयं-इच्चेइयं दुवालसंगं गणिपिडगं, वुच्छित्ति नयद्वयाए आइअं सपजवसिअं, अवुच्छित्ति नयट्ठयाएअणाइअअपज्जवसिअं, तं समासओ चउविहं पन्नतं, तं जहा-दव्वओ, खित्तओ,
॥१५॥