________________
विशेषा.
बृहद्वत्तिः ।
तदविशेषे हि बहवो दोषाः, के ? इत्याह--
पत्तेयावरणत्तं इहरा बारसविहोवओगो य । नाणं पंचवियप्पं चउविहं दसणं कत्तो । ॥ ३०९३ ।।
इतरथा केवलज्ञान-केवलदर्शनयोरेकत्वे प्रत्येकावरणत्वं- केवलज्ञानावरणं, केवलदर्शनावरण चेति प्रत्येकमावरणं तयोः कुतो घटेत ? । न होकस्य द्वे आवरणे युज्यते । ततः प्रत्येकावरणनिर्देशात् केवलज्ञान-दर्शनयोर्भेद एवेति भावः । तथा, साकारोऽष्टधा, अनाकारस्तु चतुर्धा, इत्येवं यो द्वादशविध उपयोगः श्रुतेऽभिहितः, यच्च ज्ञानं पञ्चविधम्, चतुर्विधं च दर्शनं प्रोक्तम् , तदेतत् सर्वमपि केवलज्ञान-दर्शनयोरेकत्वे कुत उपपद्यते ?- न कुतश्चिदिति ॥ ३०९३ ॥
अपिच,
भणियमिहेव य केवलनाणुवउत्तामुणंति सव्वं ति।पासंति सव्वउ ति य केवलदिट्ठीहिणंताहिं ॥३०९४॥
इहैव पुरतो भणितम्- केवलज्ञानोपयुक्ताः सिद्धाः सर्व मुणन्ति जानन्तिः, तथा पश्यन्ति च सर्वतः केवलदृष्टिभिरनन्ताभिः, | यद् वक्ष्यति
'केवलनाणुवउत्ता जाणन्ती सव्वभावगुणभावे । पासंति सव्वओ खलु केवलदिट्ठीहिणंताहिं ॥ १ ॥ इति ।। तस्माद् नैतयोरेकत्वमिति भावः ॥ ३०९४ ॥ पुनरपि परः पाहआह पिहभावम्मि वि उवउत्ता दसणे यणाणे य।भणियं तो जुगवं सो नणु भणियमिणं पि तं सुणसु॥३०९५॥
आह परः- नन्वपृथग्भावेऽपि केवलज्ञान-दर्शनयोर्न दोषाः, यतः 'असरारा जीवघणा उवउत्ता दसणे य नाणे य' इत्यत्र दर्शने च ज्ञाने च युगपदुपयुक्ता इति भणितम् । ततो युगपदेव केवलज्ञान-दर्शनोपयोगः सिद्धः । मरिराह- ननु यदि भणितनार्थ
. प्रत्येकावरणत्वमितरथा द्वादशविधोपयोगच । झानं पञ्चविकल्प चतुर्विध दर्शनं कुतः॥१.१५॥ २ भणितमिहैव च केवलज्ञानोपयुक्ता जानन्ति सर्वमिति । पश्यन्ति सर्वत इति च केवळदृष्टिभिरनन्ताभिः ॥ ३०९४ ॥
केवलज्ञानोपयुक्ता यावन्तो जानन्ति सर्वभावगुणभावान् । पश्यन्ति सर्वतः खलु केवल दृष्टिभिरनन्ताभिः ॥१॥ .. आहापृथग्भावेऽप्युपयुक्ता दर्शने ज्ञाने च । मणितं ततो युगपत् स ननु भणितमिदमपि तत् मणु ॥१.९५॥ ५ पृ. ११९८ ।
॥११९९॥
Jan Edo
International
For Personal and Price Use Only