SearchBrowseAboutContactDonate
Page Preview
Page 186
Loading...
Download File
Download File
Page Text
________________ हद्वत्तिः। विशेषा. ॥११८४॥ वाल प्रयोगादिति ॥ ३०३५ ॥ अथ 'से-सियं' इत्यस्यापराण्यपि व्याख्यानान्तराण्याहअहवा से सियमसियं गहियं वत्तमइसंसिलिटुं वा । जं वा विसेसियमह त्ति खयसेसियं व त्ति ॥३०३६॥ । अथवा, 'से' तस्य जीवस्य सर्वमपि कर्म संसारानुबन्धित्वादसितं कृष्णमशुभमित्यर्थः । अथवा, 'षो अन्तःकर्मणि' 'गहियं वत्तं त्ति जीवेन गृहीतं व्याप्तं व्याप्तिमानीतमिति सितम् । अथवा 'सेसियं ति' लेश्याविशेषात् श्लेषितं जीवन श्लेषविशेषमानीतमिति संश्लिष्टं बाधकं कृतमिति संश्लोषितम् । 'जं वा विसेसियमहह त्ति' अथवा, एकदेशेन समुदायस्य गम्यमानत्वाद् यदष्टया विशेषितं व्यवच्छिन्नं तत् शेषितं विशेषितमिहोच्यते । अथवा, क्षयण क्षपणया क्रमशः शेषितं स्थित्यनुभवादिनाऽल्पीकृतमित्यर्थः ॥३०३६।। अथ सितं मातमस्येति सिद्ध इति निरुक्तविधिमुपदर्शयन्नाहनेरुत्तियं सियं धंतमस्स तवसा मलो व लोहस्स । इय सिद्धस्सेय सओ सिद्धत्तं सिज्झणा समए ॥३०३७॥ उबजायइ त्ति ववहारदेसणमभावयानिसेहो वा । पज्जायंतरविगमे तप्पजायंतरं सिद्धो ॥ ३०३८ ॥ द्वे अपि गतार्थे । नवरं 'अभाव यानिसेहो व त्ति' निर्वाणप्रदीपकल्पत्वादभावरूपं सिद्धत्वमिति यत् कैश्चिदुच्यते, तदभिमताया अभावरूपतायाः 'सिद्धत्वमुपजायते' इत्यनेन निषेधो वा क्रियते, सिद्धत्वं भावरूपमुपजायते, न पुनः पूर्वपर्यायस्य भाव एव भवतीत्यर्थः ॥ ३०३७ ॥ ३०३८॥ अथ 'नौऊण वेयणिज्ज' इत्यादिगाथायाः प्रस्तावनार्थमाहकम्मचउक्कं कमसो समं ति खयमेइ तस्स भणियम्मि । समयं ति कए भासइ कत्तो तुल्लटिईनियमो ?॥३०३९॥ भवोपग्राहि कर्मचतुष्टयं तस्य मुमुक्षोर्मोक्षगमनसमये क्रमशः क्षयमेति, समकं वा युगपदिति कथ्यताम् । एवं भणिते परेण अथवा तस्य सितमसितं गृहीतं व्याप्तमतिसंश्लिष्ट वा । यद्वा विशेषितमष्टधेति क्षयशेषितं वेति ॥ ३०३६ ॥ २ नरुक्तिकं सित ध्मातमस्य तपसा मल इव लोहस्य । इति सिद्धस्यैव सतः सिद्धवं सेधना समये ॥ ३०३७ ॥ ३ गाथा ३०३० । उपजायत इति व्यवहारदेशनमभावतानिषेधो वा । पर्यायान्तरविगमे तत्पर्यायान्तरं सिद्धः ॥ ३०३८ ॥ ४ कर्मचतुष्कं क्रमशः समामिति क्षयमेति तस्य भणिते । समकामिति कृते भाषते कुतस्तुल्य स्थितिनियमः ॥ ३.३९ । । ११८४॥ SEA Jan Education International For Personal and Price Use Only
SR No.600167
Book TitleVisheshavashyak Bhashya Part 06
Original Sutra AuthorJinbhadragani Kshamashraman
AuthorChaturvijay
PublisherHarakchand Bhurabhai Shah
Publication Year
Total Pages202
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy