________________
विशेषा०
॥११८३ ॥
Jain Education International
निदर्शनम् ? इत्याह-
जैह उल्ला साडीया आसुं सुक्कइ विरहिया संती । तह कम्मल हुयसमए वञ्च्चति जिणा समुग्घायं॥३०३२॥ ॐ बृहद्वृत्तिः॥ एता अपि तिस्रो निर्युक्तिगाथाः ॥ ३०३२ ॥
अथ दीहकालर' इत्यादेर्भाष्यकारो व्याख्यामाह -
संताणओ अणाई दीहो ठिइकाल एव बंधाओ । जीवाणुरंजणाओ रउ त्ति जोगो त्ति सुमो वा ॥ ३०३३ ॥
सो जस्स दहिकालो कम्मं तं दहिकालरयमुत्तं । अइदीहकालंरंजणमहवा चट्ठाविसेसत्थं ॥ ३०३४ ॥
व्याख्या - ‘बंधाउ त्ति' बन्धमाश्रित्य संतानतः संतानभावेनानादित्वाद् दीर्घः स्थितेः कालो यस्य तद् दीर्घकालम्, जीवस्यानुरञ्जनाद् मालिन्यापादनाद् रजः, अथवा 'जोगो त्ति' स्नेहेन बन्धनयोग्यो भवतीति साम्याद् रजः अथवा 'सुहुमो त्ति' सूक्ष्मत्वसाम्याद् रजः कर्म भण्यते, 'सो जस्स' इत्यादिना समासः, स च विहित एव । किमुक्तं भवति इत्याह- अइदीहेत्यादि' अतिदीर्घकालं जीवस्य रञ्जनं मालिन्यापादनं रज इति । अथवां, रय इत्येतत् पदं चेष्टाविशेषार्थम् । ततश्च दीर्घकालो रयो वेगवेष्टाविशेषो जीवेऽनुभवो यस्य तद् दीर्घकालरयमित्यर्थः ॥ ३०३३ ।। ३०३४ ।।
किं पुनस्तत् ? इत्याशङ्कय 'जंतुकम्मं' इत्यस्य व्याख्यानमाह -
ॐ कम्मं ति तुसद्दो विसेसणे पूरणेऽहवा जीवो । जंतु ति, तस्स जंतो कम्मं से जं सियं बद्धं ॥ ३०३५॥ यद् दीर्घकालर जोरूपं दीर्घकालरयं वा कर्मेति । तुशब्दो विशेषणे । तेन विशेषतो भव्यस्य संबन्धि तद् गृह्यते । अथ ध्मातत्वप्रस्तावादेव भव्यसंबन्धित्वं कर्मणो लभ्यते, तर्हि पूरयतीति पूरणस्तुशब्दः पूरणार्थः । अथवा, जीवो जन्तुस्तस्य जन्तोः कर्म जन्तुकर्मेत्येवं व्याख्यायते । “से- सियं' इत्यस्य व्याख्यामाह - 'से' तस्य जीवस्य यत् सितं बद्धं, 'षिव् बन्धने' इत्यस्य धातोर्निष्ठन्तस्य
१ यथाऽर्द्रा शाटिकाssशु शुष्यति वितता सती । तथा कर्मलघुतासमये व्रजन्ति जिनाः समुद्धातम् ॥ ३०३२ ॥ २ गाथा ३०२९ ।
३ सन्तानतोऽनादिदधः स्थितिकाल एव बन्धात् । जीवानुरअनाद् रज इति योग इति सूक्ष्मो वा ॥ ३०३३ ॥
स यस्य दीर्घकालः कर्म तद् दीर्घकालरज उक्तम् । अतिदर्घिकालर अनमथवा चेष्टाविशेषार्थम् ॥ ३०३४ ॥
४ यत् कर्मेति तुशब्दो विशेषणे पूरणेऽथवा जीवः । जन्तुरिति, तस्य जन्तोः कर्म तस्य यत् सितं बद्धम् ॥ ३०३५ ॥
For Personal and Private Use Only
॥। ११८३॥
www.jainelibrary.org