________________
विशेषा.
॥११७६॥
तिर्यङ् भयात् , प्रद्वेषात् , आहारार्थम् , अपत्यनीड-गुहादिस्थानरक्षणार्थमुपसर्ग कुर्यादिति । आत्मसंवेदनीयस्तूपसर्गो नेत्रपतितकाणिकादिघट्टनात् , अङ्गानां वा स्तम्भनात् स्तब्धताभावात् , गर्तादौ वा प्रपतनात् , विगुणितबाहाद्यङ्गानां वा लेशनात् परस्परं श्लेषणादू भवति ॥ इवि सप्तचत्वारिंशद्गाथार्थः ॥ ३००६ ॥ ३००७॥
अथ रागादीनां यथाक्रममुदाहरणान्याह । तत्र च रागे 'रहदत्ता' इत्यादिषड्गाथाः। आसां चार्थः सकथानको मूलावश्यकादवसेय इति ॥
अथ 'नामयंता नमोरिहा' इत्येतद् व्याचिख्यासुराह
पहवीकरणं नामणमहवा नासणमओ जहाजागं । नेयं रागाईणं तन्नामाओ नमोऽरहा ॥ ३००८ ॥
रागादीनां प्रहीकरणं वश्यभावापादनं नमनमुच्यते, मूलतो नाशनं वा । अतो रागादीनामेवंविधं नमनं यथायोगं यथाघटमानकं ज्ञेयम् । तन्त्रमनाच नमो नमस्कारस्याही अर्हन्त इति ॥ ३००८ ।।
सांपतं प्राकृतशैल्या अनेकधार्हच्छब्दनिरुक्तसमप इति दर्शयन्नाह-'इंदिय' इत्यादिचतम्रो गाथाः, एया अपि तथैव ॥ इदानीममोघताख्यापनार्थमपान्तरालिकं नमस्कारफलमुपदर्शयति
अरहंतनमोक्कारो जीवं मोएइ भवसहस्साओ। भावेण कीरमाणो होइ पुणो बोहिलाभाए ॥ ३००९ ॥
इह नाम-स्थापना-द्रव्य-भावलक्षणनमस्कारश्चतुर्विधो गृहीतः। तत्राहच्छब्देन बुद्धिस्था अर्हदाकारवती स्थापना गृह्यते, तस्या नमस्कारः स्थापनानमस्कार इति व्युत्पत्त्या स्थापनानमस्कारः संगृहीतः। 'नमोक्कारो त्ति' इत्यनेन नामनमस्कारः। 'कीरमाणो त्ति अञ्जलिपग्रहादिना क्रियमाण इत्यनेन द्रव्यनमस्कारः । 'भावेण त्ति' अनेन तु भावनपस्कार इति । तत्राहन्नमस्कारः क्रियमाणो जीवं मोचयति भवसहस्रात् प्रस्तावादनन्तभवेभ्य इत्यर्थः । अनन्तभवमोचनाच मोक्ष प्रापयतत्युिक्तं भवति । यद्यपि च कश्चित् तद्भव एवं मोक्षं न प्रापयति तथापि भावेनोपयोगविशेषेण क्रियमाणो भावनाविशेषत एवान्यस्मिन्नपि जन्मान पुनरपि बोधिलाभाय भवति । बोधिलाभश्च निश्चितोऽचिराद् मोक्षहेतुरिति । एवं बाह्याभ्यन्तरण नामादिचतुर्विधविधानेन नमस्कारः क्रियमाणो जीवं भवाद्
॥११७६॥
१ गाथा २९६०। २ प्रहीकरणं नमनमथवा नाशनमतो यथायोग्यम् । ज्ञेयं रागादीनां तन्नामाद् नमोऽहाः ।। ३००८॥
३ अहंन्नमस्कारो जीवं मोषयति भवसहस्त्रात् । भावेन क्रियमाणो भवति पुनापिलाभाय ।। १००९ ॥
PPPRPOE