________________
विशेषा०
॥ ११७३॥
Jain Education International
शेषमपि द्रव्येन्द्रियं तल्लाभ एव लब्धप्राप्तावेव भवतीति द्रष्टव्यमिति ।। २९९७ ॥
उपयोगः कः ? इत्याह
जो सविसवावारो सो उवओगो स चेगकालम्मि । एगेण चेय तम्हा उवओगेगिंदिओ सव्वो ॥ २९९८ ॥ यः श्रोत्रादीन्द्रियस्य स्वविषये शब्दादौ परिच्छेदो व्यापारः स उपयोगः । स चैकस्मिन् काले देवादीनामप्येकेनैव श्रोत्राद्यन्यतरेणेन्द्रियेण भवति, न तु द्वयादिभिः । तस्मादुपयोगमाश्रित्य सर्वोऽपि जीव एकेन्द्रिय एव, सर्वस्मिन् काले देवादीनामध्येकस्यैव श्रोत्रद्यन्यतरेन्द्रियोपयोगस्य सद्भावादिति ।। २९९८ ।।
पयोगतः सर्वेऽपि जीव एकेन्द्रियः तर्हि एकेन्द्रियो द्वीन्द्रिय इत्यादिर्भेदः कथमागमे निर्दिष्टः ? इत्याह-
एगेंदियाइभेया पडुच्च सेसेंदियाइं जीवाणं । अवा पडुच्च लडिदियं पि पंचेंदिया सव्वे ॥ २९९९ ॥ अतो जीवानामेकेन्द्रियादयो भेदाः शेषाणि निर्वृच्यु-पकरण-लब्धीन्द्रियाणि प्रतीत्य द्रष्टव्याः । तानि यस्य यावन्ति तावद्भिर्व्यपदेश इति, न तूपयोगतः । अथवा, लब्धीन्द्रियमप्याश्रित्य वक्ष्यमाणयुक्तितः सर्वे पृथिव्यादयोऽपि जीवाः पञ्श्चेन्द्रिया एवेति ।।२९९९।। कुतः सर्वे पश्ञ्चोन्द्रियाः ? इत्याह
किर बउलाई दसइ सेसेंदिओवलंभो वि । तेण त्थि तदावरणखओवसमसंभवो तेसिं ॥ ३००० ॥
यस्मात् किल बकुल- चम्पक-तिलक-विरहकादीनां वनस्पतिविशेषाणां स्पर्शनात् शेषाणि यानि रसन-प्राण-चक्षुः श्रोत्रलक्षणानीन्द्रियाणि तत्संबन्ध्युपलम्भो दृश्यते, तेन ज्ञायते- तेषामपि बकुलादीनां तदावरणक्षयोपशमसंभवो रसनादीन्द्रियावारककर्मक्षयोपशमस्य या च यावती मात्राऽस्तीति । अन्यथा हि बकुलस्य शृङ्गारितकामिनीवदनार्पितचारुमदिरागण्डूषेण, चम्पकस्यातिसुरभिगन्धोदकसेकेन, तिलकस्य कामिनीकटाक्षविक्षेपेण, विरहकस्य पञ्चमोद्वारश्रवणेन पुष्पपल्लवादिसंभवो न घटते ।। ३००० ॥
अत्र प्रयोगमाह-
१ यः स्वविषयव्यापारः स उपयोगः स चैककाले । एकेनैव तस्मादुपयोमैकेन्द्रियः सर्वः ॥ १९९८ ॥
२ एकेन्द्रियादिभेदाः प्रतीत्य शेषेन्द्रियाणि जीवानाम् । अथवा प्रतीत्य लब्धीन्द्रियमपि पञ्चेन्द्रियाः सर्वे ॥ २९९९ ॥
३ कि कुलादीनां हृदय से दोषेन्द्रियोपलम्भोऽपि । तेनास्ति तदावरणक्षयोपशमसंभवस्तेषाम् ॥ ३००० ॥
For Personal and Private Use Only
बृहद्वृत्तिः ।
C
॥ ११७३॥
www.jainelibrary.org