SearchBrowseAboutContactDonate
Page Preview
Page 9
Loading...
Download File
Download File
Page Text
________________ विशेषा० ॥८०७|| Jain Educationa Internation इतश्चायमयुक्तः - सर्वस्यापि सन्मिश्रसुख-दुःखाख्य कार्यप्रसङ्गात् न चैतदस्ति देवादीनां केवलसुखाधिक्यदर्शनात्, नारकादीनां च केवल दुःखप्राचुर्यनिर्णयात् । न च सर्वथा सन्मित्रैकरूपस्य हेतोरल्प- बहुत्वभेदेऽपि कार्यस्य प्रमाणतोऽल्पबहुत्वं विहाय स्वरूपतो भेदो युज्यते । न हि मेचककारणप्रभवं कार्यमन्यतमवर्णोत्कटं घटते । तस्मात् सुखातिशयस्यान्यद् निमित्तम्, अन्यच्च दुःखातिशयस्येति । न च सर्वथैकरूपस्य संकीर्णपुण्यपापलक्षणस्य हेतोः सुखातिशयनिबन्धनं पुण्यांशदृद्धिर्दुःखातिशयकारणपापांशहान्या सुखातिशयप्रभवाय कल्पयितुं न्याय्या, पुण्यांश-पापांश्योर्भेदप्रसङ्गात् ; तथाहि - यद्वृद्धावपि यद् न वर्धते तत् ततो भिन्नम्, यथा देवावयवर्धमानो यज्ञदत्तः, न वर्धते च पुण्यांशवृद्धौ पापांशः, तस्मात् ततो भिन्नोऽसाविति । तस्माद् न सर्वथैकरूपता पुण्य-पापाशयोर्घटते । कर्मसामान्यरूपतया तु यद्यसौ तयोरिष्यते तदा सिद्धसाध्यता, सात यशः कीर्त्यादेः पुण्यस्य, असाता ऽयशः-कीयादेस्तु पापस्यास्माभिरपि कर्मत्वेनैकताया अभ्युपगमात् । तस्मात् पुण्य-पापरूपतया विविक्ते एव पुण्य-पापे स्त इति । ततः सुख-दुःखवैचित्र्यनिबन्धनयोः पुण्य-पापयोर्यथोक्तनीत्या साधितत्वाद् न कर्तव्यस्तत्संशयः ॥। १९४६ ॥ किञ्च, असत्त्वे पुण्य-पापयोर्वेदोक्तनीत्या साधितस्याग्निहोत्रादेः, लोकप्रसिद्धस्य च दानादेवैफल्यं स्यादिति दर्शयन्नाह - असइ बहि पुन्न पावे जमग्गिहोत्ताइं सग्गकामस्स । तदसंबद्धं सव्वं दाणाइफलं च लोअम्मि || १९४७ ॥ पुण्य-पापयोरसखे यदेतद् बहिरग्निहोत्राद्यनुष्ठानं स्वर्गकामस्य यच्च दान- हिंसादिफलं पुण्य-पापात्मकं लोके प्रसिद्धं तत् सर्वमसंबद्धं स्यात्, स्वर्गस्यापि पुण्यफलत्वात्, पुण्य-पापयोश्च भवदभिप्रायेणासत्त्वात् । तस्मादभ्युपगन्तव्ये एव पुण्य-पापे । तदेवं वेदवचनमामाण्यात्, युक्तितश्च च्छिन्नस्तस्य संशय इति ।। १९४७ ॥ ततः किं कृतवानसौ ? इत्याह छिन्नम्म संसयम्मी जिणेण जर मरणविप्पमुक्केणं । सो समणो पव्वइओ तिहि ओ सह खंडियसएहिं ॥। १९४८ ॥ गतार्था ।। इति चतुश्चत्वारिंशद्वायार्थः ॥ १९४८ ॥ ॥ इति नवमो गणधरवादः समाप्तः ॥ १ असतो हिः पुण्यपापयोरनिहोत्रादि स्वर्गकामस्य । तदसंबद्ध सबै दानादिफलं च लोके ।। १९४७ ।। २ गाथा १९०४ । For Personal and Private Use Only बृहद्वृत्तिः॥ ॥८०७|| jainelibrary.org
SR No.600166
Book TitleVisheshavashyak Bhashya Part 05
Original Sutra AuthorJinbhadragani Kshamashraman
AuthorChaturvijay
PublisherHarakchand Bhurabhai Shah
Publication Year
Total Pages202
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy