________________
विशेषा०
॥८०५॥
Jain Education Internatio
“गहणसमयम्मि जीवो उप्पाएइ गुणे सपच्चयओ । सब्बजियाणंतगुणे कम्मपएसेसु सच्चे ॥ १ ॥
भागो थोवो नामे गोए समो तओ अहिगो । आवरणमंतराए सरिसो अहिंगो य मोहे वि ॥ २ ॥ सव्वरि वेयणीए भागो अहिगो उ कारणं किंतु । सुह-दुक्खकारणत्ता ठिई विसेसेण सेसासु || ३ ||" इति ।। १९४३ ।।
एतत् सर्वं कर्मणो ग्रहणसमय आहारदृष्टान्तेन जीवः करोति, इत्याहारदृष्टान्तमेव भावयति
पेरिणामा-ऽऽसयवसओ घेणूए जहा पओ विसमहिस्स । तुल्लो वि तदाहारो तह पुण्णा पुण्णपरिणामो ॥१९४४॥
'तदाहारो त्ति' तयोरहि धेन्वोराहारस्तदाहारः स तुल्योऽपि दुग्धादिको गृहीतः परिणामा ऽऽश्रयवशाद् यथा धेन्वाः पयो दुग्धं भवति, अस्तु स एव विषं विषरूपतया परिणमति, तथा तेनैव प्रकारेण पुण्या पुण्यपरिणामः । इदमुक्तं भवति- अस्ति स कश्चित् तस्याssहारस्य परिणामो येन तुल्योऽपि सन्नाश्रयवैचित्र्याद् विचित्रतया परिणमति; आश्रयस्याप्यहि- धेनुलक्षणस्यास्ति तत्तद् निजसामर्थ्यम्, येन तुल्योऽपि गृहीत आहारस्तत्तद्रूपतया परिणमते तथा पुण्य-पापयोरुपनययोजना कृतैवेति । १९४४ ॥
अथवा, अयमेवाहारदृष्टान्तोऽन्यथा भाव्यते; तद्यथा
जैह वेगसरीरम्मि वि सारा ऽसारपरिणामयामेइ । अविसिडो वाहारो तह कम्मसुभा - सुभाविभागो ॥१९४५॥ धेनु विषधरयोर्भिने शरीर आहारस्य परिणामवैचित्र्यं दर्शितम् । 'वा' इत्यथवा यथैकस्मिन्नपि पुरुषादिशरीरेऽविशिष्टेऽप्ये करूपोऽप्याहारो गृहीतस्तत्क्षण एवं सारासारपरिणामतामेति रसा ऽसृग्-मांसादिरसपरिणामं मूत्रपुरीषरूपमलपरिणामं च युगपदागच्छतीत्यर्थः तथा कर्मणोऽप्यविशिष्टस्य गृहीतस्य परिणामा ऽऽश्रयवशात् शुभाशुभ विभागो द्रष्टव्य इति ।। १९४५ ।।
१ ग्रहणसमये जीव उत्पादयति गुणान् स्वप्रत्ययतः । सर्वजितानन्तगुणान् कर्मप्रदेशेषु सर्वेषु ॥ १ ॥ आयुष्कभागः स्तोको नाम्नि गोत्रे समस्ततोऽधिकः । आवरणेऽन्तराये सदृशोऽधिक मोहेऽपि ॥ २ ॥ सर्वोपरि वेदनीये भागोऽधिकस्तु कारणं किन्तु । सुख-दुःखकारणत्वात् स्थितिर्विशेषेण शेषासु ॥ ३ ॥
२ परिणामाश्रयवशतो धेन्वा यथा पयो विषमहेः । तुल्योऽपि तदाहारस्तथा पुण्यापुण्यपरिणामः ॥ १९४४ ॥ ३ यथा बैकशरीरेऽपि सारा असारपरिणामतामेति । अविशिष्ट इवाहारस्तथा कर्मशुभाशुभाविभागः ॥ १९४५ ॥
For Personal and Private Use Only
बृहद्वचिः।
॥८०५॥
www.jainelibrary.org