SearchBrowseAboutContactDonate
Page Preview
Page 6
Loading...
Download File
Download File
Page Text
________________ विशेषा. Place बृहदत्तिः । ॥८०४॥ "ऐगपएसोगाढं सव्वपएसेहिं कम्मुणो जोग्गं । बंधइ जहुत्तहउं साइयमणाइयं वावि ॥ १॥" उपशमश्रेणेः प्रतिपतितो मोहनीयादिकं कर्म सादि बनाति, शेषस्त्वनवाप्तोपशमश्रेणिजीवोऽनाघेव बनातीत्यर्थ इति ॥१९४१॥ अथ प्रेरकः प्राह अविसिट्ठपोग्गलघणे लोए थूणतणुकम्मपविभागो। जुजेज, गहणकाले सुभा- सुभविवेयणं कत्तो ? ॥१९४२॥ नन्वविशिष्ट प्रत्याकाशप्रदेशमनन्तानन्तैः शुभा-ऽशुभादिभेदेनाव्यवस्थितैः पुद्गलैर्घनो निरन्तरं व्याप्तोऽयं लोकः। ततश्च ग्रहणकाले गृह्णतो जीवस्य स्थूल-मूक्ष्मकर्मप्रविभागो युज्येत; ततो 'नै बायरं नाइसुहुमं च' इति विशेषणमुपपन्नम् , एतद्विशेषणविशिष्टादन्यस्य स्वभावत एव जीवैरग्रहणात् । यत्तु शुभाशुभविवेचनं तत् समयमात्ररूपे कर्मग्रहणकाले तत्क्षण एवं गृह्णतो जीवस्य कुतःसंभाव्यते ?-न कुतश्चिदिति परस्याभिप्रायः । ततश्च 'सोहणवण्णाइगुणं' इत्यादि विशेषणं न युज्यत इति प्रेरकाकूतमिति ॥ १९४२ ॥ आचार्यः प्राह अविसिलु चिय तं सो परिणामा-ऽसयसभावओ खिप्पं । कुरुते सुभमसुभं वा गहणे जीवो जहाहा।।१९४३॥ स जीवस्तत्कर्म ग्रहणे ग्रहणकाले शुभा- शुभादिविशेषणाविशिष्टमपि गृह्णन् क्षिप्रं तत्क्षणमेव शुभमशुभं वा कुरुते- शुभा-शुभविभागेन व्यवस्थापयतीत्यर्थः। कुतः इत्याह-'परिणामा-ऽऽसयसभावउ त्ति' इहाश्रयो द्विविधकर्मणो जीव आश्रयः, कर्म तु शुभाशुभत्वस्य, तस्य द्विविधस्याप्याश्रयस्य स्वभाव आश्रयस्वभावः, परिणामश्चाश्रयस्वभावश्च परिणामा-ऽऽश्रयस्वभावौ, ताभ्यामेतत् कुरुते जीवः । इदमुक्तं भवति- जीवस्य य: शुभोऽशुभो वा परिणामोऽध्यवसायस्तद्वशाद् ग्रहणसमय एवं कर्मण: शुभत्वमशुभत्वं वा जनयति; तथा जीवस्यापि कर्माश्रयभूतस्य स कोऽपि स्वभावोऽस्ति येन शुभा-ऽशुभत्वेन परिणमयन्नेव कर्म गृह्णाति तथा, कर्मणोऽपि शुभा-ऽशुभभावाद्याश्रयस्य स स्वभावः-स कश्चिद् योग्यताविशेषोऽस्ति, येन शुभा-ऽशुभपरिणामान्वितजीवेन गृह्यमाणमेवैतद्रूपतया परिणमति । उपलक्षणं चैतत् । प्रकृति-स्थित्य-ऽनुभागवैचित्र्यम् , प्रदेशानामल्प-बहुभागवैचित्र्यं च जीवः कर्मणो ग्रहणसमय एव सर्व करोतीति । उक्तं च Crose १ एकप्रदेशावगावं सर्वप्रदेशैः कर्मणो योग्यम् । बझाति यथोक्तहेतु सादिकमनादिकं वापि ॥१॥ २ अविशिष्टपुद्गलघने लोके स्थूलतनुकर्मप्रविभागः । युज्येत, ग्रहणकाले शुभा- शुभविवेचनं कुतः ॥ १९४२ ॥ ३ गाथा १९४० । . भविशिष्टमेव तत् स परिणामा-5ऽश्रयस्वभावतः क्षिप्रम् । कुरुते शुभमशुभं वा ग्रहणे जीवो यथाऽऽहारम् ॥ १९५३ ।। ०४॥
SR No.600166
Book TitleVisheshavashyak Bhashya Part 05
Original Sutra AuthorJinbhadragani Kshamashraman
AuthorChaturvijay
PublisherHarakchand Bhurabhai Shah
Publication Year
Total Pages202
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy