SearchBrowseAboutContactDonate
Page Preview
Page 4
Loading...
Download File
Download File
Page Text
________________ विशेषा० बृहद्वृत्तिः । ॥८०२॥ ततस्तेऽप्येकदा शुभा अशुभा वा भवन्ति न तु मिश्राः । ततो भावयोगनिमित्तं कर्माप्येकदा पुण्यात्मकं शुभं बध्यते, पापात्मकमशुभं वा बध्यते, न तु मिश्रमिति ॥ १९३७ ॥ अपिच, पुव्वगहियं च कम्मं परिणामवसेण मीसयं नेजा । इयरेयरभाव वा सम्मा-मिच्छाई न उ गहणे ॥१९३८॥ 'वा' इत्यथवा, एतदद्यापि संभाव्यते यत्- पूर्व गृहीतं पूर्व बद्धं मिथ्यात्वलक्षणं कर्म परिणामवशात् पुञ्जत्रयं कुर्वन् मिश्रता सम्यग्-मिथ्यात्वपुञ्जरूपतां नयेत् प्रापयदिति; इतरेतरभावं वा नयेत् सम्यक्त्वं मिथ्यात्वं वेति । इदमुक्तं भवति- पूर्वबद्धान् मिथ्यात्वपुद्गलान् विशुद्धपरिणामः सन् शोधयित्वा सम्यक्त्वरूपतां नयेत् , अविशुद्धपरिणामस्तु रसमुत्कर्ष नीत्वा सम्यक्त्वपुद्गलान् मिथ्यात्वपुजे संक्रमय्य मिथ्यात्वरूपतां नयेत् , इति पूर्वगृहीतस्य सत्तावर्तिनः कर्मण इदं कुर्यात् । ग्रहणकाले पुनर्न मिश्रं पुण्यपापरूपतया संकीणखभावं कर्म बन्नाति, नापीतरदितररूपतां नयतीति ॥ १९३८॥ 'सम्यक्त्वं मिथ्यात्वे संक्रमय्य मिथ्यात्वरूपतां नयति' इत्युक्तम् । ततः संक्रमविधिमेव संक्षेपतो दर्शयति मोत्तूण आउयं खलु दसणमोहं चरित्तमोहं च । सेसाणं पगईणं उत्तरविहिसंकमो भज्जो ॥ १९३९ ॥ इह ज्ञानावरणादिमूलप्रकृतीनामन्योन्यं संक्रमः कदापि न भवत्येव, उत्तरप्रकृतीनां तु निजनिजमूलप्रकृत्यभिन्नानां परस्परं संक्रमो भवतीति । तत्र चायं विधिः- 'मोत्तूण आउयमित्यादि' 'आउयं' इति जातिप्रधानो निर्देश इति बहुवचनमत्र द्रष्टव्यम्- चत्वा यूंषि मुक्त्वेति । एकस्या आयुर्लक्षणाया निजमूलप्रकृतेरभिन्नानामपि चतुर्णामायुषामन्योन्यं संक्रमो न भवतीति तर्जनम् । तथा, दर्शनमोहं चारित्रमोहं च मुक्त्वा एकस्या मोहनीयलक्षणायाः स्वमूलप्रकृतेरभिन्न योरपि दर्शनमोह-चारित्रमोहयोरन्योन्यं संक्रमो न भवतीत्यर्थः । उक्तशेषाणां तु प्रकृतीनाम् , कथंभूतानाम् ? इत्याह- 'उत्तरविहि त्ति' विधयो भेदाः, उत्तरे च ते विधयश्चोत्तरविधय उत्तरभेदास्तद्भूतानामुत्तरप्रकृतिरूपाणामिति तात्पर्यम् । किम् ? इत्याह-संक्रमो भाज्यो भजनीयः। भजना चैवं द्रष्टव्या- याः किल ज्ञानावरणपश्चक-दर्शनावरणनवक-कपायषोडशक मिथ्यात्व-भय-जुगुप्सा-तैजस-कार्मण , पूर्वगृहीतं च कर्म परिणामवशेन मिश्नतां नयेत् । इतरेतरभावं वा सम्यक् -मिथ्यात्वे न तु ग्रहणे ॥ १९३८ ॥ २ मुक्त्वाऽऽयुष्कं खलु दर्शनमोहं चारित्रमोहं च । शेषाणां प्रकृतीनामुत्तरविधिसंक्रमो भाज्यः ॥ १९३९ ।। 6 ८०२॥ For Personal and Price Use Only Twww.jaineibrary.org
SR No.600166
Book TitleVisheshavashyak Bhashya Part 05
Original Sutra AuthorJinbhadragani Kshamashraman
AuthorChaturvijay
PublisherHarakchand Bhurabhai Shah
Publication Year
Total Pages202
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy