SearchBrowseAboutContactDonate
Page Preview
Page 3
Loading...
Download File
Download File
Page Text
________________ विशेषा. ॥८०१॥ पेरका पाहनेणु मण-वइ-काओगा सुभासुभा वि समयम्मि दीसंति । दव्वम्मि मीसभावो भवेज न उ भावकरणम्मि ॥१९३६॥ बृहदत्तिः। ननु मनो-वाक्-काययोगाः शुभाशुभाश्च मिश्रा इत्यर्थः, एकस्मिन् समये दृश्यन्ते, तत् कथमुच्यते- 'सुभोऽसुभो वा स एगसमयम्मि' इति ? तथाहि-किश्चिदविधिना दानादिवितरणं चिन्तयतः शुभाशुभो मनोयोगः, तथा, किमप्यविधिनैव दानादिधर्ममुपदिशतः शुभाशुभो वाग्योगः; तथा, किमप्यविधिनैव जिनपूजा-वन्दनकादिकायचेष्टां कुर्वतः शुभाशुभकाययोग इति । तदेतदयुक्तम् । कुतः ? इत्याह- 'दव्वम्मीत्यादि' इदमुक्तं भवति- इह द्विविधो योगः- द्रव्यतः, भावतश्च । तत्र मनो-वाक्-काययोगप्रवर्तकानि द्रव्याणि, मनोवाक्-कायपरिस्पन्दात्मको योगश्च द्रव्ययोगः; यस्त्वेतदुभयरूपयोगहेतुरध्यवसायः स भावयोगः । तत्र शुभाशुभरूपाणां यथोक्तचिन्ता-देशना-कायचेष्टानां प्रवर्तके द्विविधेऽपि द्रव्ययोगे व्यवहारनयदर्शनविवक्षामात्रेण भवेदपि शुभाशुभत्वलक्षणो मिश्रभावः, न तु मनो-वाक्-काययोगनिबन्धमाध्यवसायरूपे भावकरणे भावात्मके योगे । अयमभिप्राय:- द्रव्ययोगो व्यवहारनयदर्शनेन शुभाशुभरूपोऽपीष्यते, निश्चयनयेन तु सोऽपि शुभोऽशुभो वा केवलः समस्ति, यथोक्तचिन्ता-देशनादिप्रवर्तकद्रव्ययोगाणामपि शुभाशुभंरूपमिश्राणां तन्मतेनाभावात् , मनो-चाक्-कायद्रव्ययोगनिबन्धनाध्यवसायरूपे तु भावकरणे भाव योगे शुभाशुभरूपो मिश्रभावो नास्ति, निश्चयनयदर्शनस्यैवागमेत्र विवक्षितत्वात् । न हि शुभान्य शुभानि वाऽध्यवसायस्थानानि मुक्त्वा शुभाशुभाध्यवसायस्थानरूपस्तृतीयो राशिरागमे कचिदपीष्यते, येनाध्यवसायरूपे भावयोगे शुभाशुभत्वं स्यादिति भावः । तस्माद् भावयोग एकस्मिन् समये शुभोऽशुभो वा भवति न तु मिश्रः । ततः कर्मापि तत्प्रत्ययं पृथक् पुण्यरूपं पापरूपं वा बध्यते, न तु मिश्ररूपमिति स्थितम् ।। १९३६ ।। एतदेव समर्थयन्नाह- झाणं सुभमसुभं वा न उ मीसंजं च झाणविरमे वि । लेसा सुभाऽसुभा वा सुभमसुभं वा तओ कम्मं ॥१९३७॥ ध्यानं यस्मादागमे एकदा धर्म-शुक्लध्यानात्मकं शुभम् , आर्त-रौद्रात्मकमशुभं वा निर्दिष्टम् , न तु शुभाशुभरूपम् , यस्माच्च ध्यानोपरमेऽपि लेश्या तैजसीप्रभृतिका शुभा, कापोतीपमुखा वाऽशुभैकदा प्रोक्ता, न तु शुभाशुभरूपाः, ध्यानलेश्यात्मकाच भावयोगाः, ननु मनो वाक्-काययोगाः शुभाशुभा अपि समये दृश्यन्ते । द्रव्ये मिश्रमावो भवेत् न तु मावकरणे ॥१९३६॥ २ गाथा १९१५। ३ क. ग. 'भस्योपल' | |८०१॥ ४ क. ग. भमिश्ररूपाणां'। ५ ध्यानं शुभमशुभं वा न तु मिनं यच्च ध्यानविरमेऽपि । केश्या शुभाऽशुभा वा शुभमशुभं वा ततः कर्म ॥ १९३७ । .
SR No.600166
Book TitleVisheshavashyak Bhashya Part 05
Original Sutra AuthorJinbhadragani Kshamashraman
AuthorChaturvijay
PublisherHarakchand Bhurabhai Shah
Publication Year
Total Pages202
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy