________________
विशेषा०
हत्तिः ।
॥९८०॥
च, इत्येते द्वे अपि सुदूरविलक्षणत्वात् समकं युगपद् न भवतः, बहूनां तु शीतोष्णादिविशेषज्ञानानां समय एकस्मिन् काले जायमानानां विशेषज्ञानरूपतया तेषां बहूनामपि तुल्यस्वेन वैलक्षण्याभावात् को विरोधः, येन शीतोष्णवेदनाविशेषज्ञाने युगपद् गङ्गस्य निषिध्येते ? इति ॥ २४४६ ॥
अत्रोत्तरमाहलक्खणभेयाउ च्चिय सामण्णं च जमणेगविसयं ति । तमघेत्तुं न विसेसन्नाणाई तेण समयम्मि ॥२४४७॥
तो सामन्नग्गहणाणंतरमीहियमवेइ तब्भेयं । इय सामन्नविसेसावेक्खो जावंतिमो भेओ ॥ २४४८ ॥
तेन कारणेन समय एकस्मिन् काले बहूनि विशेषज्ञानानि न भवन्ति । कुतः ? इत्याह- लक्षणं शीतोष्णादिविशेषणस्वरूपं | तस्य परस्परं भेदा भिन्नत्वाद् न तद्ग्राहकाणि ज्ञानानि समकं भवन्ति, यस्माच्चानेकविषयमनकाधारं सामान्यम् , इत्यतस्तदगृहीत्वा न विशेषज्ञानसंभूतिरस्तीति, अतोऽपि न युगपद् विशेषज्ञानानि । इदमुक्तं भवति- पूर्व वेदनासामान्यं गृहीत्वा तत ईहां प्रविश्य 'शीतेयं पादयोर्वेदना' इति वेदनाविशेष निश्चिनोति । शिरस्यपि प्रथम वेदनासामान्य गृहीत्वा तत ईहां प्रविश्य 'उष्णेयमिह वेदना इत्यध्यवस्यति । न हि घटविशेषज्ञानादनन्तरमेव पटाश्रयसामान्यरूपेऽगृहीते पटविशेषज्ञानमुपजायते 'उग्गहो ईहअवाओ य' इत्यमुनैव क्रमेण घटादिविशेषज्ञानोत्पत्त्यभिधानात् । एवं च सति विशेषज्ञानादनन्तरमपि विशेषत्वानं नोत्पद्यते, आस्तां पुनः समकालम् , सामान्यस्यानेकविशेषाश्रयत्वात् । तच्च पूर्वमगृहीत्वा विशेषज्ञानस्याप्रसवादिति । - यतश्चैवं सामान्येऽगृहीते नास्ति विशेषज्ञानम्, 'तो तिततः सामान्यग्रहणानन्तरमीहितं तद्भेदं सामान्यभेदं घटत्वादिसामान्याश्रयं घटादिविशेषमित्यर्थः, अवैति- 'घटादिरेवाऽयम्' इत्येवं निश्चिनोतीत्यर्थः । तत उत्तरभेदापेक्षया घट एव सामान्यम् । तस्मिंश्च गृहीते ईहित्वा 'धातुजोऽयम् ,न मातः' इत्येवं निश्चिनोति । ततो धातुजोऽप्युत्तरभेदापेक्षया सामान्यम् । तस्मिंश्च गृहीते इहित्वा 'ताम्रोऽयं न राजतादिः' इतीत्थं निश्चिनोतीति । एवं सामान्य-विशेषापेक्षा तावत् कर्तव्या यावदन्तिमो भेदः स कश्चिद् यदनन्तरमीहा न प्रवतते । ततश्चैवं न कचिद् विशेषज्ञानानां युगपत्पत्तिसंभवः, सामान्यरूपतया तु समकालमपि विशेषाणां ग्रहणं भवेत् , यथा सेना,
, लक्षणभेदादेव सामान्य च यदनेकविषयमिति । तदगृहीत्वा न विशेषज्ञानानि तेन समये ॥ २४४७ ॥ ततः सामान्यग्रहणानन्तरमीहितमवेति तजेदम् । इति सामान्यविशेषापेक्षा यावदन्तिमो भेदः॥ २४४८॥ १गाथा १७८ ।
का
ROO
8॥९८०॥
Toto 10
Jan E
rinn
For Personal and
Use Only