SearchBrowseAboutContactDonate
Page Preview
Page 181
Loading...
Download File
Download File
Page Text
________________ विशेषा० ॥९७९॥ Jain Education Interna नेष्टमित्यर्थः । अत एव तद्विषयमुपयोगद्वयं युगपद् नेष्टम् । किं युगपद् वस्तुद्रयग्रहणं सर्वथा नेष्टम् । नैवम् । कुतः १ इत्याहभवेत् समं युगपद् वस्तुद्वयग्रहणम् । किं विशेषरूपतया १ । न इत्याह- सामान्यं सामान्यरूपतयेत्यर्थः । कथम् ? | 'वेदना मे मम वर्तते इत्येवं युगपद् द्वयग्रहणं भवेत्, न तु शीतोष्णवेदनाविशेषरूपतयेत्यर्थः, युगपदुपयोगद्वयमसङ्गात्, तत्र च दोषाणामुक्तत्वादिति ।। २४४३ ॥ आह- ननु यदा वेदनामात्रग्राहकं सामान्यज्ञानं, तदैवं शीतोष्णवेदनाविशेषग्राहकमपि तत् कस्माद् नेष्यते ? इत्याह-जं सामण्णविसेसा विलक्खणा तन्निबंधणं जं च । नाणं जं च विभिन्ना सुदूरओवग्गहा-ऽवाया ॥२४४४|| जं च विसेसन्नाणं सामन्ननाणपुव्वयमवस्सं । तो सामण्णविसेसन्नाणाई नेगसमयम्मि || २४४५ ॥ 'तो त्ति' तस्मात् सामान्य ग्राहकं विशेषग्राहकं च ज्ञानं द्वे अपि नैकसमये नैककालं भवत इति द्वितीयगाथायां संबन्धः । कुत: ? इत्याह- 'जं सामण्णेत्यादि' यद् यस्मात् सामान्य विशेषौ परस्परमतीव विभिन्नलक्षणौ भिन्नजातीयौ, अतः कथं तावेककालमेकज्ञाने प्रतिभासेते, एकस्वप्रसङ्गात्, सामान्यतत्स्वरूपवत्, विशेषतत्स्वरूपवद् वा ? | मा भूत् तत्प्रतिभासः, तथापि तज्ज्ञाने युगपद् भविष्यत इत्याहयस्माच्च तन्निबन्धनं सामान्यविशेषहेतुकं सर्वमपि ज्ञानं तत् कथं तत्प्रतिभासमन्तरेणोत्पद्येत ? । सामान्य विशेषज्ञानयेोरेकत्वादेककालं ते भविष्यत इति चेत् । तदयुक्तम् । कुतः १ इत्याह- यस्माच्च सुदूरं विभिन्न सामान्य विशेषज्ञानरूपाववग्रहाऽवायौ, इति कथं समः कालं भवतः १। यद् यस्माच्चावश्यकं सामान्यग्राहकज्ञानपूर्वकमेव विशेषग्राहकं ज्ञानम्, “नानवगृहीतमीह्यते, नानीहितं निधीयते" इत्यादिवचनात् । अतः कथं तयोर्युगपत् सम्भवः । इति ।। २४४४ ॥ २४४५ ॥ पुनरपि परः प्राह- "होज्ज न विलक्खणाई समयं सामण्ण-भेयनाणाई | बहुयाण को विरोहो समयम्मि विसेसनाणाणं ? ॥२४४६|| नन्वाचार्य ! एवं तर्हि अस्तु यदुत - सामान्यवेदनामात्र ग्राहकं सामान्यज्ञानं, शीतोष्णवेदनाविशेषग्राहकं विशेषज्ञानरूपं भेदज्ञानं १ यत् सामान्य-विशेषौ विलक्षणौ तन्निबन्धनं यच्च । ज्ञानं यच्च विभिन्नौ सुदूरतोऽवग्रहा- बायौ ॥ २४४४ ॥ यच्च विशेषज्ञानं सामान्यज्ञानपूर्वकमवश्यम् । ततः सामान्य विशेषज्ञाने नैकसमये ॥ २४४५ ॥ २ भवेतां न विलक्षणे समकं सामान्य भेदज्ञाने । बहुकानां को विरोधः समये विशेषज्ञानानाम् ? || २४४६ ॥ For Personal and Private Use Onty बृहद्वतिः । ॥ ९७९ ॥ www.jainelibrary.org
SR No.600166
Book TitleVisheshavashyak Bhashya Part 05
Original Sutra AuthorJinbhadragani Kshamashraman
AuthorChaturvijay
PublisherHarakchand Bhurabhai Shah
Publication Year
Total Pages202
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy