SearchBrowseAboutContactDonate
Page Preview
Page 178
Loading...
Download File
Download File
Page Text
________________ जवाब विशेषा वृहदतिः । ॥९७६॥ द्वारेणोत्पद्यमान उपलम्मे क्रमेण संचरतो मनसः संचारो दुर्लक्षः, तर्हि कथमेकस्यैव स्पर्शनेन्द्रियमात्रस्य शीतवेदनोपयोगादुष्णवेदनोपयोगरूप उपयोगान्तरे जन्ये तत्संचारः सुलक्षः स्यात् , अलक्ष्यमाणे च तत्क्रमसंचारे शीतो-ष्णक्रियाद्वयोपयोगविषयौ युगपदध्यवसायौ भवहइति ॥ २४३४ ॥ एतदेवाह सव्वेदिओवलंभे जइ संचारो मणस्स दुल्लक्खो। एगेंदिओवओगंतरम्मि किह होउ सुलक्खो ? ॥२४३५॥ व्याख्याताथैव ॥ २४३५॥ यदि पुनरेकस्मिन्नर्थ उपयुक्तमपि मनोऽथोन्तरेऽप्युपयोगं गच्छेत् तदा को दोषः स्यात् ? इत्याह अन्नविणिउत्तमण्णविणिओगंलहइ जइ मणो तेणं हत्थि पि ट्ठियं पुरओ किमण्णचित्तो नलक्खेइ ? ॥२४३६॥ अन्यस्मिन् शीतवेदनादिकेऽर्थे विनियुक्तमुपयुक्तमन्यविनियुक्तं मनो यदि 'अण्णं ति अन्य उष्णवेदनादिकोऽर्थस्तद्विषयोपयोगोऽन्यस्तमन्यं विनियोगसुपयोगं लभते, 'तेणं ति' तर्हि किमित्यन्यचित्तोऽन्यार्थोपयुक्तचित्तो देवदत्तादिर्हस्तिनमपि पुरतो व्यवस्थितं न लक्षयति ? । तस्मादेकस्मिन्नर्थ उपयुक्तं मनो न कदाचिदन्यार्थोपयोगं लभत इति ॥ २४३६ ॥ यदि त्वेकोपयोगे उपयोगान्तरमपीष्यते तदैतदपि किं नेष्यते । किम् ? इत्याहविणिओगन्तरलाभे व किं त्थ नियमेण तो समं चेव । पइवत्थुमसंखेजाऽणता वाजं न विणिओगा?॥२४३७॥ एकोपयोगकाले विनियोगान्तरस्योपयोगान्तरस्य लाभे वेष्यमाणे 'तो ति' ततः किमत्र क्रियाद्वयोपयोगलक्षणेन नियमेन, 'जति यत् प्रतिवस्त्वसंख्येया अनन्ता वा सममेव युगपदेव विनियोगा नेष्यन्ते ? । इदमुक्तं भवति- यदि शीतवेदनोपयोगकाले उष्णवेदनोपयोगोऽपीध्यते, तर्हि किमत्रानेन क्रियाद्वयोपयोगनैयत्येन, यदसंख्येया अनन्ता वा प्रतिवस्तु युगपदुपयोगा न भवन्ति, खास बहसमानता ॥९७६॥ १ सर्वेन्द्रियोपलम्भे यदि संचारो मनसो दुर्लक्षः । एकेन्द्रियोपयोगान्तरे कथं भवतु सुलक्षः ॥ २४३५ ॥ २ अन्यावनियुक्तमन्यविनियोग लभते यदि मनस्तेन । हस्तिनमपि स्थितं पुरतः किमन्यचित्तो न लक्षयति ॥ २४३६॥ विनियोगान्तरलाभे वा किमत्र नियमेन ततः सममेव । प्रतिवस्त्वसंख्येया अनन्ता दा यद् न विनियोगाः ॥ २४३७॥ Seeee Jan E inema For Personal and Use Only a w.jainmibrary.org
SR No.600166
Book TitleVisheshavashyak Bhashya Part 05
Original Sutra AuthorJinbhadragani Kshamashraman
AuthorChaturvijay
PublisherHarakchand Bhurabhai Shah
Publication Year
Total Pages202
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy