________________
विशेषा
॥४०३॥
HIDIDESHIGAMICHIDINCREADERSITERABARमानासम्मरम्मत कापायावर
तस्मादावश्यकस्याऽनुयोग इति स्थिते विनेयपृच्छाम् , उत्तरं चाह--
आवस्सयस्स जइ सो तत्थंगाईण अट्ठ पुच्छाओ। तं होइ सुयक्खंधो अज्झयणाई च, न उ सेसा ॥८४३॥
यद्यावश्यकस्याऽयमनुयोगः, तथाऽऽवश्यकं श्रुतविशेषः, तीत्राङ्गादीन्याश्रित्याऽष्टौ पृच्छाः संभवन्ति, तद्यथा- 'आवस्सयं णं किं अंगं, अंगाई सुयक्खंधो, सुयक्खंधा; अज्झयणं, अज्झयणाई उद्देसो, उद्देसा?' इति । अत्रोत्तरमाह-इह तदावश्यक षडध्ययनसमुदायलक्षणश्रुतस्कन्धः, प्रत्येकमध्ययनानि च पडिति । शेषाः षट् प्रकाराः प्रतिषेद्धव्याः, असंभवित्वादिति ॥ ८४३॥
अत्र प्रेरकः प्राह
नणु नंदीवक्खाणे भणियमणंगं इहं कओ संका? । भण्णइ अकए संका तस्सानियमं च दाएइ ॥८४४॥
ननु नन्द्यध्ययने व्याख्यायमाने ' इमं पुण पट्ठवणं पडुच्च अंगबाहिरस्स उद्देसो, समुद्देसो, अणुण्णा, अणुओगो पवत्तइ' इत्यादिवचनादावश्यकमङ्गवाह्यत्वादङ्ग न भवतीति भाणितमेव, इति कुतोऽत्र शङ्का, येन पृच्छा क्रियते । अत्र निर्वचनमाह- भण्यतेत्रोतरम् , श्रुतस्कन्धादिविषये तावदस्त्येव शङ्का, तत्राऽस्यार्थस्याऽनिर्णीतत्वात् । अतस्तद्विषयास्तावत् कर्तव्या एव पृच्छाः । अङ्गाऽनङ्गरूपतायामपि यदा नन्द्यध्ययनमश्रुत्वा विनेयः प्रथमत एवेदं भृणोति, तदाऽकृते नन्दिव्याख्यानेऽस्त्येव शङ्का- किमावश्यकमङ्गम् , तद्वाह्यं वेति । आह- ननु नन्धध्ययनं श्रुत्वा तदावश्यकं श्रोतव्यम् , इतीत्यं क्रमः, अतः कथं नन्द्यध्ययनस्य प्रथमं व्याख्यानाकरणम् , येन प्रस्तुतशङ्का स्यात् , इत्याशङ्कयाह- 'तस्सेत्यादि' तस्य प्रथमं नन्दिव्याख्यानकरणस्याऽत एवाङ्गा-ऽनङ्गप्रश्ननिर्णयवचनादाचार्योऽनियमं दर्शयति, पुरुषाद्यपेक्षयाऽन्यथाऽपि नन्द्यादिव्याख्यानकरणादिति ।। ८४४ ॥
आह- ननु मङ्गलार्थ सर्वेषामपि शास्त्राणामादौ नन्दिव्याख्यानं कर्तव्यमेव, इति कथं तदनियमः ?, इत्याहनाणाभिहाणमेत्तं मंगलमिटुं न तीए वक्खाणं । इहँमट्ठाणे जुज्जइ, जं सा वीसुं सुयक्खंधो ॥ ८४५ ॥
१ आवश्यकस्य यदि स तत्रागादीनामष्ट पृच्छाः । तद् भवति श्रुतस्कन्धोऽध्ययनानि च, न तु शेषाः ॥ ८४३ ॥ २ क. ग. 'तच्चाव' । ३ आवश्यक किमाम् , अङ्गानिः श्रुतस्कन्धः, श्रुतस्कन्धाः; अध्ययनम्, अध्ययनानि, प्रदेशः, उद्देशाः। "मनु नन्दीव्याख्याने भणितमनङ्गमिह कुतः शङ्का । भण्यतेऽकृते शङ्का तस्यानियमं च दर्शयति ॥८४४॥ ५ इदं पुनः प्रस्थापनं प्रतीत्याजबाह्यस्योद्देशः, समुद्देशः, अनुज्ञा, अनुयोगः प्रवर्तते। ६ ज्ञानाभिधानमात्र मङ्गलमिष्टं न तस्या व्याख्यानम् । इहाऽस्थाने युज्यते, यत् सा विष्वक् श्रुतस्कन्धः ॥ ८४५॥ ७ क. 'हसट्ठा' ।
॥४०३॥
JainEducational
For Personal and Private Use Only
www.jainelibrary.org