SearchBrowseAboutContactDonate
Page Preview
Page 4
Loading...
Download File
Download File
Page Text
________________ विशेषा० ॥४०२॥ आवस्सयाणुओग' इत्यात्तरमाह- इह श्रुतज्ञायदक्तम्- ' आव प्रदीप इव श्रुतज्ञानमेव यस्मात् स्व-परस्वरूपप्रकाशकम् , न शेषज्ञानानि । न हि श्रुतज्ञान विहाय स्वकीय स्वरूपं, शेषज्ञानचतुष्टयस्वरूपं चान्यज्ज्ञानं परस्य प्रकाशयितुं शक्नोति । अनुयोगोऽपि परप्रबोधनायैव प्रवर्तते । अतः परप्रबोधकत्वेनाऽऽसन्नत्वात् तस्यैव श्रुतस्याऽनु- 19 | योगः परप्रबोधनार्थमारभ्यते, न शेषज्ञानानामिति ।। ८३८ ॥ ८३९ ॥ अथ प्रेर्यमुत्थाप्य परिहरनाह सोऽहिगओ च्चिय आवस्सयस्स कयरस्स किंत्थ चिंताए।तं चिय सुयं ति साहइ सुयाणुयोगाभिहाणेण ॥८४०॥ आह- ननु 'कयप्पवयणप्पणामो' इत्यादौ 'आवस्सयाणुओगं' इत्यनेनाऽसावावश्यकानुयोगोऽधिकृत एवाऽऽस्ते, किमत्र 'सो मइनाणाईणं कयरस्स' इत्यनया चिन्तया कार्यम् ?- न किञ्चिदित्यर्थः । अत्रोत्तरमाह- इह श्रुतज्ञानस्यानुयोग इत्यभिधानेन तदेवावश्यकं श्रुतविशेष एव, नापरं किश्चिद् घटादिवस्तु, इति साधयति कथयति । अतो नन्यादिषु यदुक्तम्- 'आवश्यकस्याऽनुयोगं वक्ष्यामि' इति, तत् 'श्रुतविशेषरूपस्यैवैतस्य' इत्यावेदितं भवतीति ॥ ८४०॥ आह- यद्येवम् , 'अनुयोगः' इति कः शब्दार्थः ?, इत्याहअणुवयणमणुओगो सुयस्स नियएण जमभिहेएणं । वावारो वा जोगो जोऽणुरूवोऽणुकूलो वा ॥ ८४१॥ अहवा जमत्थओ थोव-पच्छभावेहिं सुयमणु तस्स । अभिहिए वावारो जोगो तेणं व संबंधो ॥ ८४२॥ यत् सूत्रस्य निजेनाभिधेयेनाऽनुयोजनमनुसंबन्धनमसावनुयोग इत्यर्थः । अथवा, योऽनुरूपोऽनुकूलो वा घटमानः संबध्यमानो व्यापारः प्रतिपादनलक्षणः सूत्रस्य निजार्थविषयेऽयमनुयोगः । अथवा, यद् यस्मादर्थतोऽर्थात् सकाशादणु सूक्ष्म लघु सूत्रम् , काभ्याम् ?, इत्याह- स्तोक पश्चाद्भावाभ्यां- एकस्यापि मूत्रस्यानन्तोऽर्थ इत्यर्थात् स्तोकत्वात् , तथा, प्रथममुत्पाद व्यय-ध्रौव्यलक्षणं तीर्थकरोक्तमर्थं चेतसि व्यवस्थाप्य पश्चादेव सूत्रं रचयन्ति गणधराः, इत्येवमर्थात् पश्चाद्भावाच्च सूत्रमणु एवेति भावः, तस्मात् तस्याऽणोः सूत्रस्य यः स्वकीयाभिधेये योगो व्यापारः, तेन वाऽणुना सूत्रेण सह यः संवन्धो योगोऽसावनुयोग इति ।। ८४१॥ ८४२॥ सोऽधिकृत एवावश्यकस्य कतरस्य किमत्र चिन्तया । तदेव श्रुतमिति कथयति श्रुतानुयोगाभिधानेन ॥ ८४०॥ २ गाथा १।३ गाथा ८३८॥ ४ अनुवचनमनुयोगः श्रुतस्य नियतेन यदभिधेयेन । व्यापारो वा योगो योऽनुरूपोऽनुकूलो वा ॥ ८ ॥ अथवा पदर्थतः स्तोक-पश्चाद्भावाभ्यां श्रुतमणु तस्य । अभिहिते व्यापारी योगस्तेन वा संबन्धः ॥ ८४२ ॥ ॥४०२॥ For Personal and Private Use Only wMR.Janeitrary.org
SR No.600164
Book TitleVisheshavashyak Bhashya Part 03
Original Sutra AuthorJinbhadragani Kshamashraman
AuthorChaturvijay
PublisherHarakchand Bhurabhai Shah
Publication Year
Total Pages202
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy