________________
बृहद्वृत्तिः ।
विशेषा० ॥५८०॥
बाहिं जहा तहतो संभिन्नं सव्वपज्जवेहिं वा । अत्त-परनिविसेसं स-परपज्जायओ वा वि ॥ १३४३ ॥
यथा बहिस्तथाऽन्तश्चेति संभिन्नम् । अथवा, सर्वपर्यायैः संकर्णि व्याप्तं संभिन्नम् । यदिवा, यथाऽऽत्मानं जानाति तथा परम- पि, यथा परं तथात्मानमपि निर्विशेष जानाति, इत्येवं ख-परनिर्विशेष संभिन्नं, स्व-परपर्यायैर्वा युक्तं संभिन्नमिति ॥ १३४३॥
अथवा--
अभिन्नग्गहणेणं व दवमिह सकाल-पज्जवं गहियं । लोगालोगं सव्वं ति सव्वओ खित्तपरिमाणं ॥१३४४॥
संभिन्नग्रहणेनेह सकाल-पर्यायं द्रव्यं गृह्यते, कालश्च पर्यायाश्च काल-पर्यायाः, सह तैवर्तत इति सकाल-पर्यायं भिन्नम् । 'लोकालोकं च सर्वतः सर्वम्' इत्यनेन क्षेत्रपरिमाणं गृहीतम् । एतावदेव च ज्ञेयं यद् द्रव्यादिचतुष्टयमिति ॥ १३४४ ॥
बच्च पश्यन् किम् , इत्याह
तं पासंतो भूयाइं जं न पासइ तओ तयं नत्थि । पंचत्थिकायपज्जयमाणं नेयं जओऽभिहियं ॥१३४५॥
तच् द्रव्यादि चतुर्विधं ज्ञेयं पश्यंस्तकोऽसौ केवली भूतादिकालविशिष्टं तत् किमपि वस्तु नास्ति यद् न पश्यति । कुतः, इत्याहयतो यस्मात् पश्चास्तिकायपर्यायराशिप्रमाणमेव ज्ञेयमागमेऽभिहितम् , नान्यत् । एतच्च द्रव्यादिचतुष्टयं न गृहीतमेवेति भावः॥१३४५॥
सदेवमियता ग्रन्थेन किमुक्तं भवति !, इत्याह
तैव-नियम-नाणरुक्खं आरूढो जं जिणो अमियनाणी । एत्तो स परंपरओ एत्तो जिणपवयणुप्पत्ती ॥१३४६॥
तदेवमियता ग्रन्थेनाऽयं स जिनोऽमितज्ञानी प्रोक्तः । यः किम् ?, इत्याह- यस्तपो-नियम-ज्ञानवृक्षमारूढो ज्ञानदृष्टिं मुश्चति पाग निर्दिष्टः । एतस्माच स प्रागुक्तो भावपरम्परक:- एतस्मादेव चाचार्यपारम्पर्येण सामायिकादि श्रुतमायातमित्यर्थः । एतस्माच जिनप्रवचनोत्पत्तिरिति ।। १३४६ ॥
पहिर्यधा तथाऽन्तः संभिन्नं सर्वपर्यवैर्वा । आत्म-परनिर्विशेष स्व-परपर्यायतो वापि ॥ १३४३ ॥ २ संभिन्नग्रहणेन वा अन्यमिह सकाल-पर्यवं गृहीतम् । लोकालोकं सर्वमिति सर्वतः क्षेत्रपरिमाणम् ॥ १३४४ ॥ ३ तत् पश्यन् भूतादि यद् न पश्यति सकस्तद् नास्ति । पञ्चास्तिकायपर्ययमानं शेयं यताऽभिहितम् ॥ १३४५ ॥ · तपो-नियम-ज्ञानवृक्षमारूदो यज्जिनोऽमितज्ञानी । इतः स परम्परक इतो जिनप्रवचनोत्पत्तिः ॥ १३४६॥
SidhaRABARDASTI
॥५८०॥
Jan Education interna
For Personal and Private Use Only
www.jaineltrary.org