SearchBrowseAboutContactDonate
Page Preview
Page 181
Loading...
Download File
Download File
Page Text
________________ विशेषा० ॥५७९॥ मयः, तत्र हि समय आवरणस्य क्षीयमाणस्य क्षीणत्वात् , केवलज्ञानस्य चोत्पद्यमानस्योत्पन्नत्वात् , आत्मद्रव्यस्य त्ववस्थितत्वादिति । एवं सर्वेषामपि भावानां मृद-गुल्यादिपदार्थानां घट-ऋजुतादिभिरपूर्वपर्यायैरुत्पादः, पिण्ड-शिवक-स्थास-कोशादिभिः, वक्रत्वादिभिश्चात प्राक्तनपर्यायैर्व्ययः, मृद-ऽङ्गुल्यादिद्रव्यरूपतया त्ववस्थानं युगपद् भवतीति ज्ञातव्यमिति ॥ १३४० ॥ यदि चरमसमये केवललाभः, ततः किम् ?, इत्याह उभयावरणाईओ केबलवरनाण-दसणसहावो। जाणइ पासइ य जिणो नेयं सव्वं सयाकालं ॥ १३४१ ॥ ततश्च सर्वमपि ज्ञेयं साध-ऽपर्यवसितं सदाकालं जिनः केवली जानाति केवलज्ञानेन, पश्यति च केवलदर्शनेन । कथंभूतः सन् ?, केवलवरज्ञान-दर्शनस्वभावस्तदव्यतिरिक्तस्वरूपः । तर्हि पूर्वमित्थमदृष्ट्वा किमितीदानीमेवं पश्यति ?, इत्याह- यत इदानीमुभयावरणातीतः केवलज्ञान-केवलदर्शनावरणद्वितयातीतत्वादित्यर्थः ॥ इत्यष्टाविंशविगाथार्थः ॥ १३४१॥ अत एवाह संभिन्नं पासंतो लोगमलोगं च सव्वओ सव्वं । तं नत्थि जंन पासइ भूयं भव्वं भविस्सं च ॥१३४२॥ ___सम्- एकीभावेन भिन्न संभिन्न-यथा बहिस्तथा मध्येऽपीत्यर्थः, अथवा, द्रव्य-क्षेत्र-काल-भावलक्षणं सर्वमपि ज्ञेयमत्र केवलज्ञानस्य विषयत्वेन दर्शितम् , तत्र संभिन्नमिति द्रव्यं गृह्यते, काल-भावौ च तत्पर्यायत्वाद् गृह्यते ताभ्यां च समस्ताभ्यां समन्ताद् वा भिन्न संभिन्नमिति कृत्वा द्रव्यं संभिन्नमुच्यते । तत् पश्यन्नुपलभमानो 'लोकमलोकं च प्रसिद्धखरूपं पश्यन्' अनेन क्षेत्र प्रतिपादित भवति । एतावदेव द्रव्यादि चतुर्विध ज्ञेयं, नान्यदिति । किमेवमेकया दिशा पश्यन् ?, इत्याह- सर्वतः सर्वासु दिक्षु । ताखपि किं कियदपि द्रव्यादि, उत न ?, इत्याह- सर्व निरवशेषम् । अमुमेवार्थ स्पष्टयनाह- तद् नास्ति किमपि ज्ञेयं भूतमतीतम् , भवतीति भव्यं | वर्तमानम् , भविष्यच्च, यद् न पश्यति केवली ॥ इति नियुक्तिगाथार्थः ॥ १३४२ ।। _ 'संभिन्नं पश्यन्' इत्युक्तम् , तत्र 'संभिन्नम्' इति कोऽर्थः ?, इत्याह ॥५७९॥ उभयावरणातीतः केवलवरज्ञान-दर्शनस्वभावः । जानाति पश्यति च जिनो ज्ञेयं सर्व सदाकाकम् ॥ ११॥ २ संभिवं पश्यन् लोकमलोकं च सर्वतः सर्वम् । तद् नास्ति यद् न पश्यति भूतं भव्य भविष्यच ॥ १५४२॥ POS Jain Educanera internatio For Personal and Private Use Only Twww.jaineltrary.org
SR No.600164
Book TitleVisheshavashyak Bhashya Part 03
Original Sutra AuthorJinbhadragani Kshamashraman
AuthorChaturvijay
PublisherHarakchand Bhurabhai Shah
Publication Year
Total Pages202
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy