________________
विशेषा.
बृहद्वत्तिः ।
॥५७४॥
ननु कथं पुनः क्षायिकं सम्यक्त्वं विशुद्धतरं, क्षायोपशामिकं त्वविशुद्धम् , इत्याह-- 'निव्वलियमयणकोद्दवभत्तं तिल्लाइमीसियंमदए । न उसोऽवाओ निव्वलिय-मीसमयकोद्दवच्चाए ॥१३२३॥ तह सुद्धमिच्छसम्मत्तपोग्गला मिच्छमीसिया मिच्छं । होज परिणामओ वा सोऽवाओ खइए न त्थि॥१३२४॥
इह निर्वलिता निर्मदनीकृताः शोधिता ये मदनकोद्भवास्तनिवृत्तं यद् भक्तमोदनस्तत् तैलादिविरुद्धद्रव्यमिश्रितं भुज्यमानं मदयेत्- विक्रियां गमयेदेव भोक्तारम् । न पुनः सोऽपायोऽस्ति । क सति ?, निर्वलित-मिश्रमदनकोद्रवत्यागे सति । इदमुक्तं भवतियः शोधितान् शुद्धाशुद्धस्वरूपान् वा मदनकोद्रवान् न भुङ्क्ते तस्योक्तस्वरूपो मदनलक्षणोऽपायो न भवत्येव, तथा तेनैव प्रकारेण शुद्ध च तद् मिथ्यात्वं च शुद्धमिथ्यात्वम्- अपूर्वकरणाध्यवसायेनापनीतमिथ्यात्वभावमित्यर्थः, तदेवोपचारतः सम्यक्त्वं शुद्धमिथ्यात्वसम्यक्त्वं तस्य पुद्गलाः शुद्धमिथ्यात्वसम्यक्त्वपुद्गलाः शोधितमदनकोद्रवस्थानीया विरुद्ध तैलादिद्रव्यकल्पेन मिथ्यात्वेन मिश्रिताः सन्तस्तरक्षण एव मिथ्यात्वं भवति, कुतीर्थिकसंसर्ग-तद्वचःश्रवणादिजनितपरिणामाद् वा क्लिष्टबहुरसीकृता मिथ्यात्वरूपतां प्रतिपद्यन्ते । ततस्तथैव मिथ्यादृष्टिभूत्वा पुनः संसारनीरधि बम्भ्रमीति । स चैवंभूतोऽपायः क्षायिकसम्यक्त्वे नास्ति, सर्वानर्थमूलानां शुद्धानामशुद्धानां वा मिथ्यात्वपुद्गलानां क्षपितत्वेनाऽसत्त्वात् । तस्मात् शुद्धतरं क्षायिकसम्यक्त्वम् , मलीमसं च क्षायोपशमिकम् । अत एतदपगमेऽपि क्षायिकसम्यक्त्वभावाद् नाऽदर्शनी जीवः, किन्तु प्रत्युत विशुद्धसम्यग्दर्शनीति स्थितम् ॥ १३२३ ।। १३२४ ॥ .
प्रस्तुतमाह
बेडाऊ पडिवन्नो नियमा खीणम्मि सत्तए ठाइ । इयरोऽणुवरओ च्चिय सयलं सेढिं समाणेइ ॥१३२५॥ गतार्था ॥१३२५॥ योऽबदायुः प्रतिपद्यते स दर्शनसप्तके क्षपिते किं करोति ?, इत्याह
निलितमदनकोद्रवभक्तं तैलादिमिश्चितं मदयेत् । न तु सोऽपायो निर्वलित-मिश्रमदकोद्व त्यागे ॥ ११२३॥ तथा शुद्धमिथ्यात्वसम्यक्त्वपुगला मिथ्यात्वमिश्रिता मिथ्यात्वम् । भवेत् परिणामतो वा सोऽपायो क्षायिके नास्ति ॥ १३२४ ॥ बदायुः प्रतिपको नियमात् क्षीणे सप्तके तिष्ठति । इतरोऽनुपरत एवं सकलां श्रेणि समापयति ।। १३२५ ॥
॥५७४॥
For Dod
ony