________________
विशेषा०
॥५१४॥
सहचारित्वे कथमेकं ज्ञानं मोक्षस्य कारणम् , न पुनरेक क्रियारूपं कारणमिष्यते ? । न ह्याग्रहग्रहग्रस्ततां विहायापरो हेतुरिहोपलभ्यत इति भावः ॥११३८ ॥
यदुक्तम्- 'रागादिविणिग्गहो जो य त्ति' । तत्राह
रोगाइसमो संजमकिरिय च्चिय नाणकारणा होज्ज । तीसे फले विवाओ तं तत्तो नाणसहियाओ॥११३९॥
रागादिशमो रागादिनिग्रहस्तावत् संयमक्रियैव भण्यते, नापरं किश्चित् । सा च ज्ञानं कारणं यस्याः सा ज्ञानकारणा ज्ञानफला भवेदेव, नेहाऽस्माकं काचिद् विप्रतिपत्तिः। किन्तु यत् तस्याः समनन्तरं मोक्षादिकं फलमुपजायते तत्र विवदामः, तथाहि-तरिक ज्ञानादेव केवलादुपजायते, आहोस्वित् केवलक्रियातः, उत ज्ञान-क्रियोभयात् ? इति त्रयी गतिः। तत्र न तावदाद्यः पक्षः, ज्ञानादपान्तराले भवतापि क्रियोत्पत्तेरभ्युपगमात् । नापि द्वितीयः पक्षो युक्तः, ज्ञानशून्यक्रियातो मोक्षादिकार्याभ्युपगमे उन्मत्तादिक्रियातोऽपि मुक्तिप्रसङ्गात् । तस्मात् तृतीय एव पक्षो युज्यते, अत एवाह 'तं तत्तो नाणसहियाउ त्ति तद् मोक्षादिकार्य ततस्तस्याः क्रियायाः सकाशादुत्पद्यते । कथंभूतायाः, ज्ञानसहिताया इति ।। ११३९ ।।
यदुक्तम्- 'जं च मणोचिन्तियमंतपूयेत्यादि । तत्राह
परिजवणाई किरिया मंतेसु वि साहणं न तम्मत्तं । तण्णाणओ य न फलं तं नाणं जेणमक्किरियं ॥११४०॥
विषघात-नभोगमनादिहेतुषु मन्त्रेष्वपि परिजपनादिक्रिया मन्त्रसहायिनी कार्यस्य साधनं कार्यसाधिकेत्यर्थः; न तु तन्मात्र मन्त्रमात्रमेव तत्साधकम् । अथाभिधत्से- ननु प्रत्यक्षविरुद्धमिदम् , यतो दृष्टं कचिद् मन्त्रानुस्मरणज्ञानमात्रादप्यभीष्टफलम् ; इत्याहतज्ज्ञानाच केवलाद् मन्त्रानुस्मरणज्ञानाञ्च न तत्फलम् , येन कारणेनाऽक्रियमेव तज्ज्ञानम् , अमूर्तत्वात् , यच्चाक्रियं न तत् कार्याणि कुरुते, यथाऽऽकाशम् , अक्रियं च ज्ञानम्, इति कथं कार्याणि कुर्यात् ?; यच्च करोति तत् सक्रिय दृष्टम् , यथा कुलालः, न चैवं ज्ञानम् , | इति न तत्केवलं किमपि करोति । न चेदं प्रत्यक्षविरुद्धम् । न हि क्रियासाहाय्यरहितं ज्ञानं कचिदपि फलमुपाहरदुपलभ्यत इति।।११४०॥
अथ प्रेर्यमाशङ्कय परिहरनाह१क. ग. 'हप्रस्त' । २ गाथा ११३४ । ३ रागादिशमः सयमक्रियैव ज्ञानकारणा भवेत् । तस्याः फले विवादस्तत् ततो शानसहितायाः ॥ ११३९ ॥ ४ प. छ, 'यस्याः'। ५ गाथा ११३५1 परिजपनादिः क्रिया मन्त्रेष्वपि साधनं न तन्मात्रम् । तज्ज्ञानतब न फलं तज्ज्ञानं येनाऽक्रियम् ॥ 11४० ॥
॥५१४॥