SearchBrowseAboutContactDonate
Page Preview
Page 4
Loading...
Download File
Download File
Page Text
________________ उसका DOHORORS विशेषा. ॥२०२॥ जं तेण पंचधणुसयनराइविसयववहारवोच्छेओ। पावइ, सहस्सगुणियं जेण पमाणंगुलं तत्तो ॥३४२॥ यद् यसान तेनोच्छ्रयाङ्गुलेनेन्द्रियविषयपरिमाणेऽभ्युपगम्यमाने, आदिशब्दस्य व्यवहितसंबन्धात् पञ्चा-ऽर्धपञ्चमधनुःशतादि- बृहद्वात्तिः। प्रमाणानां भरत-सगरादिनराणां योऽसौ श्रोत्रादिभिः शब्दादिविषयग्रहणव्यवहारः प्रसिद्धस्तस्य व्यवच्छेदः प्राप्नोति । कुतः, इत्याह- येन भरतचक्रवर्त्यङ्गुलरूपं यत् प्रमाणाङ्गुलं तदेतत् ततस्तस्मादुच्छ्याङ्गुलात् सहस्रगुणमुक्तं "उस्सेहंगुलमेगं हवइ, पमाणंगुलं सहस्सगुणं" इतिवचनात् । भरतादीनां चाऽवध्यादिनगर्यः, स्कन्धावारश्चात्माङ्गुलेन द्वादशयोजनायामतया सिद्धान्ते निर्णीतः । उत्सेधाङ्गलेन पुनरनेकानि योजनसहस्राणिं भवन्ति । अतस्तत्राऽऽयुधशालादिषु ताडितभेर्यादिशब्दश्रवणं सर्वेषां त्वदभिप्रायेण न प्राप्नोति, श्रोत्रं हि 'वारसहिं जोअणेहिं सोयं अभिगिण्हए सई" इत्यादिवचनाद् द्वादशभ्य एव योजनेभ्यः समागतं शब्दं शृणोति, न परतः । एतानि च द्वादश योजनानि त्वदभिप्रायेण किलोच्छ्याङ्गुलेन मीयन्ते, अत उच्छ्याङ्गुलनिष्पन्नेभ्योऽनेकयोजनसहस्रेभ्यः | समागतं भेर्यादिशब्दं कथं श्रोत्रं गृह्णीयात् ? । इष्यते च भरतादिनगरी-स्कन्धावारेषु तच्छ्रवणम् । अत आत्माङ्गुलेनैवेन्द्रियाणां विषयपरिमाणं, नोत्सेधाङ्गुलेन ॥ इति गाथार्थः ।। ३४२ ॥ अपि च, यानि देहस्याऽत्मभूतान्येवेन्द्रियाणि, तान्यपि तावत् सर्वाण्युच्छ्याङ्गुलेन न मीयन्ते, किं पुनरिन्द्रियविषयपरिमा| णम् ?, इति दर्शयति इंदियमाणे वि तयं भयाणिजं जंति गाउआईणं । जिभिदियाइमाणं संववहारे विरुज्झेजा ॥ ३४३ ॥ ___ इन्द्रियाणि श्रोत्रादीनि, तानि चेह "कोयंवपुष्फ-गोलय-ममूर-अइमुत्तयकुसुमं व" इत्यादिना प्रोक्तानि द्रव्येन्द्रियाणि व गृह्यन्ते । तेषां मानं प्रमाणमङ्गलाऽसंख्येयभागादिकं, तत्रापि कर्तव्ये ग्रहीतव्ये बोद्धव्ये वा तदुच्छ्याङ्गुलं भजनीयं- कापि व्यापार्यते, | कापि नेत्यर्थः, स्पर्शनेन्द्रियमेकं तेन मीयते, शेषाणि त्वात्माङ्गुलेनैवेति भावः। कुतः१, इत्याह-'जमित्यादि' यद् यस्मात् त्रिगव्यूतादि १ यत्तेन पञ्चधनुःशतनरादिविषयव्यवहारव्यवच्छेदः । प्राप्नोति, सहवगुणितं येन प्रमाणागुलं ततः ॥ ३४२ ॥ २५. छ. 'नेन्द्रियादि। ३ द्वादशभियोजनैः श्रोत्रमभिगृह्णाति शब्दम् ।। ४ इन्द्रियमानेऽपि तद् भजनीयं यदिति कोशादीनाम् । जिहेन्द्रियादिमानं संव्यवहारे विरुध्येत ॥ ३३॥ ॥२०२॥ ५ कादम्बपुष्प-गोलका-तिमुक्तककुसुममिव । Jan Education Internatio For Personal and Private Use Only www.jaineltrary.ary
SR No.600163
Book TitleVisheshavashyak Bhashya Part 02
Original Sutra AuthorJinbhadragani Kshamashraman
AuthorChaturvijay
PublisherHarakchand Bhurabhai Shah
Publication Year
Total Pages202
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy