________________
विशेषा
बदत्ति:
॥३६८॥
स्त्वाह- "बाहिरलभो नाम जत्थ से ठियस्स ओहिण्णाणं समुप्पण्ण, तम्मि ठाणे सो ओहिनाणं न किंचि पासइ, ते पुण ठाणं जाहे अन्तरियं होइ, तं जहा- अङ्गुलेण वा, अङ्गुलपुहत्तेण वा, विहत्थीए वा, विहत्थिपुहत्तेण वा, एवं जाव संखिज्जेहिं वा, असंखिजेहिं वा जोयणेहिं ताहे पास एस बाहिरलंभो भण्णइ" अनेन भाष्योक्तस्तृतीयः पक्ष एवं लिखितः, आद्यपक्षद्वयं तु किमुपलक्षणव्याख्यानाच्चूर्णी द्रष्टव्यम् , आहोस्विदन्यत् किश्चित् कारणम् ? इति केवलिनो विदन्तीति । तत्र चैवंविधे बाह्यावधावेकस्मिन् समये द्रव्य-क्षेत्र-काल-भावेषु विषये उत्पादादयो भजनीया इति ।। ७४९ ॥
कथं भजनीयाः १, इत्याह
उप्पाओ पडिवाओ उभयं वा होज्ज एगसमएणं । कहमुभयमेगसमये विभागओ तं न सव्वस्स ॥७५०॥
इह कदाचिदेकस्मिन् समये उत्पादो भवति- पूर्व स्वल्पद्रव्यादिविषयो बाह्यावधिरुत्पन्नः सन् वर्धत इत्यर्थः- अधिकान् द्रव्यक्षेत्र-काल-भावान् पश्यतीति भावः । कदाचित् त्वेकास्मन् समये हीयतेऽसौ- पूर्वदृष्टेभ्यो द्रव्यादिभ्यो हीनांस्तान् पश्यतीत्यर्थः । कदाचित् तूत्पाद-प्रतिपातलक्षणमुभयमप्येकस्मिन् समये भवेत् , यतो बाह्यावधिर्देशावधिरयम्, ततश्च यदैवकदिके बाह्यावधौ तिरश्चीनं संकोचलक्षणः प्रतिपातस्तदैवाग्रतो वृद्धिरूप उत्पादो भवतिः यदा चाग्रतः संकोचस्तदैव तिरश्चीनं विस्तरः। एवं सान्तरानेकदिक्केऽपि | बाह्यावधौ यदैवैकस्यां दिश्यधिकस्यैवोत्पादस्तदैवाऽन्यस्यां प्रतिपातः । एवं च वलयाकारे सर्वतोदिकेऽपि बाह्यावधौ यत्रैव समये एकस्मिन् देशे वलयस्य विस्तराधिक्यलक्षण उत्पादस्तत्रैव समयेऽन्यस्यां दिशि वलयस्य संकोचलक्षणः प्रतिपातः, इत्यादिप्रकारेणोत्पादादयोऽत्रैकसमये भजनीयाः।
अत्र परः प्राह- 'कहमुभयमित्यादि' कथमुत्पात-प्रतिपातविरुद्धधर्मद्वयलक्षणेमुभयमेकस्यैकस्मिन् समये युक्तम् ?-न घटत एवैतदिति परस्याभिप्रायः । अत्रोत्तरमाह- 'विभागओ तं न सबस्स त्ति' । इदमुक्तं भवति- यदि हि सर्वस्याऽप्यवधेयुगपदेवोत्पादप्रतिपातावभ्युपगम्येयाताम् , तर्हि स्याद् विरोधः, एतच्च नास्ति, विभागतो देशतस्तदभ्युपगमात् ।। ७५० ॥
बाझलाभो नाम यन्त्र तस्य स्थितस्यावधिज्ञानं समुत्पन्न, तस्मिन् स्थाने तस्यावधिज्ञानं न किञ्चित् पश्यति तत्पुनः स्थानं यावदन्तरितं भवति, तद्यथाअगुलेन वा, अशुलपृथक्त्वेन वा, वितस्त्या वा, वितस्तिपृथक्त्वेन वा, एवं यावत् संख्ययैर्वा, असंख्येयैर्वा योजनस्तावत् पश्यति, एष बाह्यलाभो भण्यते। २ क. 'व लक्षितः'। ३ उत्पादः प्रतिपात उभयं वा भवेदेकसमयेन । कथमुभयमेकसमये विभागतस्तद् न सर्वस्य ॥७५०॥ ४ घ.छ. 'कतो दि' । ५ घ.छ. 'णमे'।
SOICER
॥३६८॥
For Personal and Private Use Only