SearchBrowseAboutContactDonate
Page Preview
Page 537
Loading...
Download File
Download File
Page Text
________________ बंधन - संकमणु-घणा य अववहणा उदीरणया । उवसामणा णिवन्ती णिकायणा च त्ति करणाई ॥ २ ॥ वंधण ति ॥ बध्यते - अपूर्वं गृह्यतेऽनेन तद्बन्धनम् । संक्रम्यते - अन्यप्रकृतिरूपतया स्थितमन्यप्रकृतिरूपतयाऽऽपाद्यते येन तत्संक्रम णम् । उद्वयेंते-प्रभूतीक्रियेते स्थितिरसौ यया वीर्यपरिणत्या सोद्वर्तना । एवमपवते - ह्रस्वीक्रियेते तो यया साऽपवर्त्तना । उदीर्यते - अनुदयप्राप्तमुदयावलिकायां यया सोदीरणा । उदयोदीरणानिधत्तिनिकाचनाऽयोग्यत्वेन व्यवस्थापनमुपशमना । उद्वर्त्तनापवर्त्तनान्यकरणायोग्यत्वेन व्यवस्थापनं निधत्तिः । सकलकरणायोग्यत्वेन व्यवस्थापन निकाचना इति एतानि करणानि ॥ २ ॥ एषां वीर्य विशेषरूपत्वादादौ वीर्यमेव प्ररूपयति— विरियंत राय दे सक्खएण सङ्घक्खएण वा लद्वी । अभिसंधिजमियरं वा तत्तो विरियं सलेसस्स ॥ ३ ॥ विरियं इत्यादि । वीर्यान्तरायस्य देशक्षण-क्षयोपशमेन च्छद्मस्थानां सर्वक्षयेण च केवलिनां वीर्यलब्धिर्भवति, ततस्तस्याः सकाशात् सलेश्यजीवमात्रस्य (अभिसंधिर्ज' बुद्धिपूर्वकं धावनादिक्रियाहेतुः 'इतरत् अनभिसंधिजं च मुक्ताहारस्य धातुमलत्वाद्यापादकं करणवीर्यं भवति, सलेश्यवीर्यलब्धेर्हेतोः सदातनत्वेन तत्कार्यकरणवीर्यस्यापि तथात्वात् । यत्तु भगवत्यादावशैलेशीप्रतिपन्नानां करणवीर्यस्य भजनीयत्वमुक्तं तदुत्थानादिक्रिया हेतु बाह्यकरणमाश्रित्यैवेति ध्येयम् ॥ ३ ॥ परिणामाबणगहण साहणं तेण लद्धनामतिगं । कज्जन्भासण्णोण्णप्पवेसविसमीकयपएसं ॥ ४ ॥ परिणामति । तत् करणवीर्य योगनामधेयं परिणामालम्बनग्रहणसाधनं तेन हेतुना च परिणामादिसंज्ञया लब्धनामत्रिकं भवति तथाहि — ग्रहणवीर्येणैौदारिकादिवर्गणा गृह्णाति, परिणामवीर्येणैौदारिकादिरूपतया परिणमयति, आलम्बनवीर्येण च मन्दशक्तिर्यष्टिमिव Jain Education International For Private & Personal Use Only: www.jainelibrary.org
SR No.600159
Book TitleGurutattva Vinischaya
Original Sutra AuthorN/A
AuthorYashovijay Gani, Chaturvijay
PublisherAtmanand Jain Sabha
Publication Year1925
Total Pages540
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy