SearchBrowseAboutContactDonate
Page Preview
Page 455
Loading...
Download File
Download File
Page Text
________________ सर्वेषामपि जघन्यं पल्योपमपृथक्त्वस्थितिषु सौधर्मे, प्रज्ञप्तिस्तु-"कसायकुसीले जहा पुलाए, णवरं उक्कोसेणं अणुत्तरविमाणेसु । णियंठे णं एवं चेव, जाव वेमाणिएसु उववज्जमाणे अजहण्णमणुक्कोसेणं अणुत्तरविमाणेसु उववजई" स्नातकस्य निर्वाणम्" इति ॥ ८६ ॥ उक्तं गतिद्वारम् । अथ संयमद्वारमाह-- ठाणाई संजमोखलु, ताइं असंखिज्जयाइं पत्ते। हुंति चउण्हं ठाणं, इकंचिय दोण्ह चरिमाणं ॥ ८७॥ संयमद्वारम् | 'ठाणाईति । संयमः खलु स्थानानि, संयमशब्देन संयमस्थानान्युच्यन्त इत्यर्थः । तानि च प्रत्येकं सर्वाकाशप्रदेशाग्र-18 गुणितसर्वाकाशप्रदेशपरिमाणानन्तचारित्रपर्यायसमुदायरूपाणि हीनोत्कृष्टादिभेदान्यसङ्ख्येयानि श्रेणिनिष्पादकानि भववन्तीति विवेचितं प्रथमोल्लासे । तत्र 'तानि' संयमस्थानानि प्रत्येकं 'चतुर्णा' पुलाकबकुशप्रतिसेवककषायकुशीलानामसङ्ख्ये यानि भवन्ति । 'द्वयोश्चरमयोः' निर्ग्रन्थस्नातकयोः पुनरेकमेव संयमस्थानं भवति । यत्प्रज्ञप्ति:-"पुलागस्स णं भंते ! केवइआ संजमढाणा ? गोयमा! असंखेजा ठाणा पण्णत्ता, एवं जाव कसायकुसीलस्स । णियंठस्स णं भंते ! केवइआ| संजमहाणा पण्णता ? गोयमा ! एगे अजहण्णमणुकोसए संजमट्ठाणे पण्णत्ते । एवं सिणायस्स वि"त्ति ॥ ८७ ॥ संयमद्वार एव पुलाकादीनां संयमस्थानाल्पबहुत्वमाहणिग्गंथसिणायाणं, तुलं इक्कं च संजमट्ठाणं । अकसाइअंतओ ते, पुलायवउसाणऽसंखगुणा ॥ ८८॥ संयमस्था नाल्पबहुपडिसेवगसकसायाण संखगुणिया तओ अते हुंति। अण्णे णिग्गंथस्ल वि, असंखठाणाइं इच्छंति॥८९॥ पुलाकादीनां त्वम् marwa Main ERT an international For Private & Personal use only Lainelibrary.org
SR No.600159
Book TitleGurutattva Vinischaya
Original Sutra AuthorN/A
AuthorYashovijay Gani, Chaturvijay
PublisherAtmanand Jain Sabha
Publication Year1925
Total Pages540
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy