________________
स्वोपज्ञत्तियुतः चतुर्थो
॥ १९४ ॥
एतद्विवरणे चेत्थमुक्तम् — “तीर्थमिदानीम् सर्वेषां तीर्थकराणां तीर्थेषु भवन्ति । एके त्वाचार्या मन्यन्ते - पुलाकवकुश - प्रतिसेवना कुशीलास्तीर्थे नित्यम्, शेषास्तु तीर्थेऽतीर्थे वा " इति ॥ ७० ॥ उक्तं तीर्थद्वारम् । अथ लिङ्गद्वारमाहबज्झभंतरभेअं, लिंगं दवे य होइ भावे य । दवम्मि तिसु विसवे, भावे सवे विणियलिंगे ॥ ७१ ॥
'बज्झति । लिङ्ग्यते - गम्यते स्वरूपमनेनेति लिङ्गम्, तच्च बाह्याभ्यन्तरभेदं द्रव्ये भावे च भवति । तत्र 'द्रव्ये' द्रव्यलिङ्गे वेपमात्ररूपे 'सर्वे' पुलाकादयः 'त्रिष्वपि लिङ्गेषु स्वलिङ्गपरलिङ्गगृहिलिङ्गलक्षणेषु भवन्ति । भावे पुनः सर्वेऽपि निजलिङ्ग एव भवन्ति, भावलिङ्गस्य ज्ञानादिलक्षणत्वात् तस्य चार्हतामेव भावात्, उक्तञ्च प्रज्ञप्तौ – “पुलाए णं भंते ! किं सलिंगे होज्जा अण्णलिंगे होज्जा गिहिलिंगे होज्जा ? गोयमा ! दबलिंगं पडुच्च सलिंगे वा होज्जा अण्णलिंगे वा होज्जा गिहिलिंगे वा होज्जा, भावलिंगं पडुच्च णियमा सलिंगे होज्जत्ति ॥ ७१ ॥ भावलिङ्गस्यान्यत्रापि सत्त्वमुपपादयन्नाहजं सोहणमत्थपयं, अण्णत्थ वि होइ आयकज्जकरं । तं दिट्टिवायमूलं, पमाणमिय बिंति आयरिआ ॥ ७२ ॥
'जं सोहणं 'ति । यत् 'शोभनं ' परमार्थरमणीयं ' अर्थपदं' यमनियमादिवचनं 'अन्यत्रापि' जैनग्रन्धातिरिक्तग्रन्थेऽपि 'आत्मकार्यकरं' योगदृष्टिप्राधान्येनासङ्ग्रहनिरासद्वारा भावसम्यक्त्वप्राप्तिरूपाध्यात्मप्रसादकरं तत् पारम्पर्येण दृष्टिवादमूलं सत् प्रमाणम्, भागवतभावलिङ्गरूपत्वादन्येषामीदृशार्थस्य स्वातच्येण ज्ञानायोगात् । इत्थं चान्यत्रापि भावलिङ्गसम्भव इत्यस्माकं 'आचार्याः' हरिभद्रादयो ब्रुवते, व्यक्तं चैतदुपदेशयोगदृष्टिसमुच्चयादौ समर्थितं चास्माभिरपि द्वात्रिंशि
Jain Education International
For Private & Personal Use Only)
गुरुतत्त्वविनिश्चयः
लास:
लिङ्गद्वारम्
भावलिङ्गम्
॥ १९४ ॥
www.jainelibrary.org