________________
स्वोपज्ञवृत्तियुतः चतुर्थी
॥ १८१ ॥
'विपर्यासे' निष्कारणं लिङ्गव्यत्यये क्रियमाण इत्यर्थः, 'मनसा' मनोमात्रेण 'दुष्टः' अकल्प्य प्रतिसेवी यथासूक्ष्मपुलाकः । तदिदमाह भाष्यकृत् - " नाणे दंसण चरणे, लिंगे अहमुहुमए अ णायो । नाणे दंसण चरणे, तेसिं तु विराहणे - सारो ॥ १ ॥ लिंगपुलाओ अन्नं, णिक्कारणओ करेइ जो लिंगं । मणसा अकप्पिआणं, णिसेवओ होअहासुमो ॥ २ ॥” त्ति ॥ १० ॥ यथासूक्ष्मस्यार्थान्तरमाह
सर्व्वसु वि एएसुं, थोवं थोवं तु जो विराहेइ । सो होइ अहासुमो, एसो अण्णो वि आएसो॥ ११॥
'सवेसु वित्ति | 'सर्वेष्वप्येतेषु ज्ञानादिषु स्तोकं स्तोकं यो विराधयति स भवति यथासूक्ष्मः, एषोऽन्योऽपि 'आदेशः ' व्याख्याप्रकारः । तदुक्तमुत्तराध्ययनवृद्धविवरणे - " अहासुमो एएस चेव पंचसु वि जो थोवं थोवं विराहेइ "त्ति ॥ ११ ॥ निगमनद्वारा विशेषमाह-
इय दुविहो उ पुलाओ, भणिओ लद्धीइ तह य सेवाए। अण्णे लद्धिपुलायं, भिषणं णेच्छंति नाणाओ॥१२॥
‘इय ंत्ति । 'इति' अमुना प्रकारेण लब्ध्या तथा सेवया पुलाको द्विविधो भणितः । अन्ये पुनर्लब्धिपुलाकं 'ज्ञानात्' ज्ञानासेवकात् पुलाकाद्भिन्नं नेच्छन्ति, नहि लब्धिविशेषमात्रेणासारत्वं पुलाकत्वप्रयोजकं भवति, तदुपजीवनं च सार्वत्रिकमिति लब्धिविशेषवतो ज्ञानासेविन एव लब्धिपुलाकत्वव्यपदेशो युक्त इति तेषामभिप्रायः, तदुक्तं भगवतीवृत्ती|" अन्ये त्वाहुः - " आसेवनातो यो ज्ञानपुलाकस्तस्येयमीदृशी लब्धिः, स एव च लब्धिपुलाको न तद्व्यतिरिक्तः कश्चिदपरः”
For Private & Personal Use Only
Jain Education International
गुरुतत्त्वविनिश्चयः
लासः
पुलाकद्वैविध्ये मानान्तरम् ॥ १८१ ॥
www.jainelibrary.org