SearchBrowseAboutContactDonate
Page Preview
Page 387
Loading...
Download File
Download File
Page Text
________________ स्थादीनां वस्त्रदाने तेषां हस्तात्प्रातिहारिकग्रहणे च चतुर्लघुकमेव । पार्श्वस्थादीनां वाचनादाने तेभ्यो वा वाचनाग्रहणे सूत्रे चतुर्लघु, अर्थे चतुर्गुरु । यथाछन्दानां सूत्रे चतुर्गुरु, अर्थे षड्लघु । अनेकदिनवाचनासु पुनः- “सत्तरत्तं तवो होइ” | इत्यादिक्रमेण प्रायश्चित्तवृद्धिरुपढौकते । पार्श्वस्थादिषु वाचनादानादानयोर्वन्दनकदुष्टसंसर्गादयोऽनेके दोषा इति ॥ २४ ॥ एवं पार्श्वस्थादयो न वन्दनीया इति स्थितम् । अथ सुविहितानामपि पार्श्वस्थादिसङ्गत्याऽवन्द्यत्वं स्यादिति प्रकटयन्नाह - णिग्गमणभूमिवसइप्पमुहट्ठाणे ठिआ उ एएसिं । गुणणिहिणो वि हु समणा, अवंदणिजा जओ भणियं २५ 'णिग्गमणभूमि त्ति । निर्गमनभूमिर्यत्र ते निर्गच्छन्ति, वसतिः - उपाश्रयस्तत्प्रमुखस्थाने स्थिताः 'एतेषां' पार्श्वस्थादीनां गुणनिधयोऽपि श्रमणा अवन्दनीया भवन्ति संसर्गदोषात् यतो भणितमावश्यके ॥ २५ ॥ | असुइट्ठाणे पडिआ, चंपगमाला ण कीरई सीसे । पासत्थाइट्ठाणेसु वट्टमाणा तह अपुज्जा ॥ २६ ॥ 'असुइट्ठाणे 'ति । यथा 'अशुचिस्थाने' अमेध्यस्थाने पतिता चम्पकमाला स्वरूपतः शोभनाऽपि सती अशुचिस्थानसंसर्गान्न क्रियते 'शीर्षे' मस्तके, पार्श्वस्थादिस्थानेषु वर्त्तमानाः साधवस्तथा 'अपूज्याः' अवन्दनीयाः । पार्श्वस्थादीनां स्थानानि वसति निर्गमन भूम्यादीनि परिगृह्यन्ते, अन्ये तु शय्यातरपिण्डाद्युपभोगलक्षणानि व्याचक्षते, तत्संसर्गात् पार्श्वस्थादयो भवन्ति न चैतानि सुष्ठु घटन्ते तेषामपि तद्भावापत्तेश्चम्पकमालोदाहरणोपनयस्य च सम्यगघटमानत्वादिति । तत्र कथानकम् - " एगो चंपगपिओ कुमारो चंपयमालाए सिरे कयाए आसगओ वच्चति, आसेण उडुअस्स सा चंपगमाला Jain Education International For Private & Personal Use Only: पार्श्वस्थादिसंगत्या सु विहितानाम विद्यत्वम् आ. वश्यकसा क्ष्यं च www.jainelibrary.org
SR No.600159
Book TitleGurutattva Vinischaya
Original Sutra AuthorN/A
AuthorYashovijay Gani, Chaturvijay
PublisherAtmanand Jain Sabha
Publication Year1925
Total Pages540
LanguageSanskrit
ClassificationManuscript
File Size15 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy