________________
*A*
गुरुतत्त्वविनिश्चयः ल्लासः
अभ्याहृतम्.
स्वोपज्ञव
संखडिपलोअणाए, भोअणलोलो पलोअणाकारी।आयंसाइसु णियतणुवण्णं वा जो पलोएइ ॥ ७७॥ त्तियुतः तृतीयो
'संखडित्ति । सङ्खण्ड्यन्ते प्राणिनामायूंपि यस्यां सा सङ्घडी-विवाहाद्युत्सवरूपा तस्याः प्रलोकना-बारं वारं विलोकना 18|तया 'भोजनलोलः' आहारलम्पटः प्रलोकनाकारी भण्यते । 'वा' अथवा यो निजतनुवर्णमादशादिषु प्रलोकयति, तदुक्तम् ॥१५॥ -"संखडिं पलोएइ देहं वा पलोएइ आयंसाइसु व”त्ति ॥ ७७ ॥
आइपणमणाइण्णं, णिसीहभिहडं च णोणिसीहं च ।अभिहडभोई तत्थाणाइण्णे णोणिसीहम्मि॥७॥ ___ 'आइण्ण'मिति । अभ्याहृतं द्विविध-आचीर्णमनाचीर्ण च । तत्राचीर्ण हस्तशतप्रमिते क्षेत्रे तन्मध्ये वा त्रिषु गृहेषूपयोगसम्भवे भवति, तदुक्तं पिण्डनियुक्तौ-"आइन्नं पि य दुविहं, देसे तह देसदेसे य ॥ हत्थसयं खलु देसो, आरेणं होइ देसदेसो य । आइन्नं सत्तिगिहा, ते वि य उवओगपुवागा॥१॥” एतच्च हस्तशतादारभ्याहृतमुत्कृष्टम् , स्वापत्यादिपरिवेषणार्थमुत्पाटितं हस्तस्थमेवाभ्याहृत्य दीयमान जघन्यम् , शेषं तु मध्यममिति व्यवस्थितम् । एतद्विपरीतमनाचीर्णम् । तदपि द्विविधं-निशीथाभ्याहृतं नोनिशीथाभ्याहृतं च । तत्र निशीथं मध्यरात्रं तत्रानीतं किल प्रच्छन्नं भवति, एवं साधूनामपि दायकेन मातृस्थानकरणेनाविदितं यदभ्याहृतं तत्प्रच्छन्नत्वसाधान्निशीथाभ्याहृतम् । यत्तु साधोविदितं यथैतदभ्याहृतमिति तन्नोनिशीथाभ्याहृतम् । तत्रानाचीणे नोनिशीथे चाभ्याहृते भुज्यमानेऽभ्याहृतभोजी अन्यथा तु न दोषभागिति ॥ ७८ ॥
SUPRA
॥१५१॥
Main Education International
For Private & Personal use only
ainelibrary.org