________________
स्वोपज्ञवृ- तियुतः द्वितीयो
-96
॥११२॥
चतुर्थ मील्यते, ततश्च गुरुके उत्कृष्टतोऽष्टमम् , मध्यमतः षष्ठम् , जघन्यतश्चतुर्थमिति । एवमन्यत्रापि ज्ञेयम् ॥ ८॥ गुरुतत्त्व असहं तु पप्प इकिकहासणे जा ठियं तु इकिकं । हासिज्ज तं पिअसहे, सट्टाणा दिज परठाणं ॥८९॥ विनिश्चयः
'असहं तु'त्ति । एवंविधापत्तिषु 'असहं तु प्राप्य' द्वादशाद्यं तपः कर्तुमसहिष्णुपुरुषं तु प्रतीत्य एकैकहासने क्रिय-81 ल्लास: माणे यावन्नवस्वपि पतिषु पर्यन्तकोष्ठकगतमेकैकं चतुर्थादिनिर्विकृतिकान्तं तपः स्थितं भवति तावत् हासयेत् । तत्करणेऽपि 'असहे' अशक्ते 'तदपि' पर्यन्तकोष्ठगतमपि तपो हास्यते ततः स्थापनातपो दीयते-वर्षासु वर्षाकालोक्तम् , शिशिरे शिशिरोक्तम् , ग्रीष्मे च ग्रीष्मोक्तम् । तदपि कर्तुमक्षमस्य स्वस्थानात्परस्थानं दद्यात् , वर्षास्वपि शिशिरोक्तम्, शिशिरेऽपि ग्रीष्मोक्तं तपो दीयते ॥ ८९॥ इय हिट्ठमुहे हासे, निविइयं ठाइ अब एमेव । सुद्धो भावे वि इमं, णेयं पुरिसंतरं पप्प ॥ २९० ॥३ ___ इयत्ति । 'इति' एवमधोमुखे हासे स्थाने स्थाने वर्षाशिशिरग्रीष्मरूपे हासयद्भिस्तावन्नेयं यावन्निर्विकृतिकमात्रमेव देय. |तया तिष्ठति; अथवैवमेव शुद्धः, यो निर्विकृतिकमात्रमपि तपः कर्तुमशक्तः स मिथ्यादुष्कृतेनैव शुध्यतीत्यर्थः । केचित्त्वेवमाहुः-आधाकर्मिकाद्युत्पत्तौ या षड्जीवनिकायविराधना तजनितं प्रायश्चित्तं स्वस्थानम् , आधाकर्माद्यासेवाणितं च चतुर्थादिकं परस्थानम् , तहानेऽप्ययमेव हासविधिज्ञेय इति । इदं च दानं कालभेदप्रपञ्चप्रसङ्गागतमुक्तम्। भावेऽप्येतत्पयवस्यद् ज्ञेयं पुरुषान्तरं सहासहरूपं प्राप्य पुरुषस्य भावद्वारे भणितत्वात् ,स्वातन्त्र्येण पुरुषभेदाश्चाग्रे भणिष्यन्त इति २९०॥
।।११२॥
Jain Educa
For Private & Personal Use Only