________________
युक्तिप्रसिद्धः क्षेत्रविधिपृच्छया भावविशुद्ध्या 'शुद्धाः' अशठभावाः ॥ ८५॥ अतिसंथरणे इयरे, उवसंपन्ना उ खित्तियं हुंति । इट्टा रुइए खित्ते, घोसणया वा समोसरणे ॥ ८६॥ | 'अतिसंथरणे'त्ति । 'अतिसंस्तरणे' संस्तरणातिक्रमे इतरे द्वावविधिस्थितौ यतनास्थायिनश्च क्षेत्रिकमुपसम्पन्ना भवन्ति । यत्र प्रत्यासन्नस्थानेषु समन्ततो बहवो गच्छाः क्षेत्राणि च वर्षाप्रायोग्याणि तत्र प्रचुराणि न सन्ति समासनश्च वर्षाकालस्ततो मा केचिदन्ये जानन्तोऽत्र तिष्ठेयुरिति स्नानादिसमवसरणे मिलिते समवाये रुचिते क्षेत्र घोषणा वा इष्टा अमुकत्र वयं वर्षाकरणाय गच्छाम इति ॥ ८६ ॥ तंघोसणयं सोउं, धम्मकही कोइ सन्निसंथवओ।चिट्टइ समागओ तं,गच्छत्तिय खित्तिओभणइ॥८॥ । 'तं घोसणय'ति । तां घोषणां श्रुत्वा दानादिप्रधानश्राद्धकलितं तद्रमणीयं क्षेत्रमवगत्य निर्मर्यादः कोऽपि 'धर्मकथी' धर्मकथालब्धिसम्पन्नः समागतः, स च धर्मकथयाऽऽत्मीकृतसकललोकः 'संज्ञिसंस्तवतः' सज्ञिपरिचयात्तिष्ठति; क्षेत्रिकश्च पश्चात्समागतः सन् भणति-गच्छ त्वं किमिति घोषणां श्रुत्वाप्यत्र समागतोऽसि ॥ ८७॥ सड्डाण निबंधेण य, दोण्ह वि तत्थ टिआण इच्छाए।सच्चित्तं उवही वा, अखित्तिए जाउ णाहवइ ॥८॥
'सड्डाण'त्ति । अथ धर्मकथालब्धिशालिनि परिणताः श्राद्धाः समागत्य क्षेत्रिकं भणन्ति-भगवन्तः ! यूयं द्वयेऽपि तिष्ठन्तु, द्वयोरपि वयं वर्तिष्यामहे, एवं श्राद्धानां निबन्धेन' आग्रहेण द्वयोरपि तत्र स्थितयोः सतोः सचित्तमुपधिवा
Jain Education International
For Private
Personal Use Only
www.jainelibrary.org